________________ श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः मङ्गलम् श्रीआचाराङ्ग इह हि रागद्वेषमोहाभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय नियुक्ति हेयोपादेयपदार्थपरिज्ञाने यत्नो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताशेषातिशयकलापाप्तोपदेशश्रीशीला० वृत्तियुतम् मन्तरेण, आप्तश्च रागद्वेषमोहादीनांदोषाणामात्यन्तिकप्रक्षयात्, स चाहत एव, अतःप्रारभ्यतेऽर्हद्वचनानुयोगः, सच चतुर्धा, श्रुतस्कन्धः१ तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, // 2 // गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचारादिकः, सच प्रधानतमः, शेषाणां तदर्थत्वात्, तदुक्तं चरणपडिवत्तिहेउं जेणियरे तिण्णि अणुओग त्ति, तथा चरणपडिवत्तिहेउं धम्मकहाकालदिक्खमादीया। दविए दंसणसोही सणसुद्धस्स चरणं तु॥१॥ गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तं श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि / अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः॥१॥ तस्मादशेषप्रत्यूहोपशमनाय मङ्गलमभिधेयम्, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं सुयं मे आउसंतेणं भगवया एवमक्खाय मित्यादि, अत्र च भगवद्वचनानुवादो मङ्गलम्, अथवा श्रुतमिति श्रुतज्ञानम्, तच्च नन्द्यन्तःपातित्वान्मङ्गलमिति, एतच्चाविघ्नेनाभिलषितशास्त्रार्थपारगमनकारणम्, मध्यमङ्गलं लोकसाराध्ययनपञ्चमो देशकसूत्रं से० जहा० वि हरए पडिपुण्णे चिट्ठइ समंसि भोमे उवसन्तरए सारक्खमीण इत्यादि, अत्र च हृदगुणैराचार्यगुणोउत्कीर्तनम्, आचार्याश्च पञ्चनमस्कारान्तःपातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरीकरणार्थम्, अवसानमङ्गलं Oमोहाद्यभिभूतेन (मु०)। चरणप्रतिपत्तिहेतवो येनेतरे त्रयोऽनुयोगाः / चरणप्रतिपत्तिहेतवो धर्मकथाकालदीक्षादिकाः / द्रव्ये दर्शनशुद्धिर्दर्शनशुद्धस्य चरणं तु ॥१॥0से जहा केवि हरए....भोम्मे (मु०)सारक्खमाणे (मु०)।