________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 1 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः मङ्गलम् / / अर्हम् / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-१-ग्रन्थाङ्कः-१/१॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीश्रुतकेवलिभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गसूत्रम्। प्रथमः श्रुतस्कन्धः ॐ नमः सर्वज्ञाय॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिकं, विहितैकैकतीर्थनयवादसमूहवशात्प्रतिष्ठितम् / बहुविधभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः॥१॥ (स्कन्दकच्छन्दः) आचारशास्त्रंसुविनिश्चितंयथा, जगाद वीरोजगते हिताय यः। तथैव किञ्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः॥२॥ शस्त्रपरिज्ञाविवरणमतिबहु गहनं च गन्धहस्तिकृतम् / तस्मात् सुखबोधार्थं गृह्णाम्यहमञ्जसा सारम् // 3 //