SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 386 // श्रुतस्कन्ध:१ पञ्चममध्ययन लोकसार:, पञ्चमोद्देशक: सूत्रम् 162 सदाचार स्वरूपः स्तान्निन्दति को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सां विद्वज्जुगुप्सांवा सम्यगापन्न:प्राप्तः आत्मा यस्यसतथा तेन विचिकित्सासमापन्नेनात्मना नोपलभते समाधिं चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तं न लभते, विचिकित्साकलुषितान्त:करणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाख्यां बोधिं नावाप्नोति / यश्चावाप्नोति स गृहस्थो वा स्याद्यतिति दर्शयितुमाह- सिताः पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, एके लघुकर्माण: सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्ति-आचार्योक्तंप्रतिपद्यन्ते, तथा असिता वा गृहपाशविमुक्ता वा एके विचिकित्सारहिता आचार्यमार्गमनुगच्छन्ति / तेषां च मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतः प्रतिपद्येतापीति दर्शयितुमाह-आचार्योक्तं सम्यक्त्वमनुगच्छद्भिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्-अप्रतिपद्यमानः कथं न निदंगच्छेदसदनुष्ठानस्य ? मिथ्यात्वादिरूपां विचिकित्सांपरित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यतेत्यर्थः, यदिवा सितासितैराचार्योक्तमनुगच्छद्भिः- अवगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन्- अनवधारयन् कथं न निर्विद्येत?, न निर्वेदंतपःसंयमयोर्गच्छेत्, निर्विण्णश्चेदमपि भावयेत्, यथा- नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतःस्फुटविकटमपि कथितं नावगच्छामि, एवं च निर्विण्णस्याचार्याः समाधिमाहुः- यथा-भोः साधो! मा विषादमवलम्बिष्ठाः,भव्यो भवान्, यतो भवता सम्यक्त्वमधिगतम्, तच्चन ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः // 162 // किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्तः, तदेवं दर्शनचारित्रमोहनीये भवत: क्षयोपशमं समागते, ®गृहवासविमुक्ता.....विचिकित्सादिरहिता प्र० / 0 ०त्वमभ्युपग० (मु०)। // 386 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy