________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 385 // सदाचारस्वरूप: सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति- आरम्भोपरताः आरम्भः- सावधो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न श्रुतस्कन्धः१ मदुपरोधेन ग्राह्यम्, अपि तु स्वत एव कुशाग्रीयया बुद्ध्या विचार्यमित्याह- एतद्यन्मया प्रागुक्तं तत्सम्यग् मध्यस्था भूत्वा / पञ्चममध्ययन लोकसारः, समर्यादं यूयमपि पश्यत / अपि चैतत्पश्यत-काल: समाधिमरणकालस्तदभिकाझ्या साधवो मोक्षाध्वनि संयमे परिः समन्ताव पञ्चमोद्देशकः जन्ति परिव्रजन्ति- उद्यच्छन्ति, इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्येतत्प्रकरणोद्देशकाध्ययनश्रुतस्कन्धाङ्गपरिसमाप्तौ प्रयुज्यते, सूत्रम् 162 तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति // 161 // आचार्याधिकारं परिसमापय्य विनेयवक्तव्यतामाह वितिगिच्छसमावन्नेणं अप्पाणेणं नोलहइ समाहिं, सिया वेगे अणुगच्छंति असिता वेगे अनुगच्छंति, अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निविजे?॥सूत्रम् 162 // विचिकित्सा चित्तविप्लुति: यया इदमस्ति इदमप्यस्तीत्येवमाकारा युक्त्या समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद्भवति, तथाहि-अस्य महतस्तपःक्लेशस्य सिकताकणकवलनिःस्वादस्य स्यात् सफलता न वेति? कृषीबलादिक्रियाया उभयथा|ऽप्युपलब्धेरिति, इयंचमतिर्मिथ्यात्वांशानुवेधाद्भवति ज्ञेयगहनत्वाच्च,तथाहि-अर्थस्त्रिविधः- सुखाधिगमो दुरधिगमोऽनधिगमश्च श्रोतारंप्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य, तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साया विषय एव न भवति, देशकालस्वभावविप्रकृष्टस्तु विचिकित्सा-गोचरीभवति, तस्मिन् धर्माधर्माकाशादौ या विचिकित्सेति, यदिवा 'वितिगिंछे'त्ति विद्वज्जुगुप्सा, विद्वांस:साधवो विदितसंसारस्वभावा: परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा-निन्दा अस्नानात् प्रस्वेदजलक्लिन्नमलत्वाद्दुर्गन्धिवपुष 0 मया प्रोक्तं (मु०)। // 385 //