SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 384 // सच ह्रदो निर्मलजलस्य प्रतिपूर्णो जलजैः सर्वर्तुजैरुपशोभितः समे भूभागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न श्रुतस्कन्धः१ कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तं- अपगतं रजः कालुष्यापादकं यस्य स तथा, नानाविधांश्च पशममध्ययन लोकसारः, यादसां गणान् संरक्षन् सह वा यादोगणैरात्मानमारक्षन्- प्रतिपालयन् सारक्षन तिष्ठतीत्येषा क्रिया प्रकृतैव / यथा चासौ. पञ्चमोद्देशकः ह्रदस्तथाऽऽचार्योऽपीति दर्शयति-स: आचार्यः प्रथमभङ्गपतित: पञ्चविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः, (तद्यथा सूत्रम् 161 सदाचारआयार सुअ सरीरे वयणे वायण मई पओगमई। एए सुसंपया खलु अठ्ठमिआ सङ्गहपरिन्ना // 1 // ) षट्त्रिंशगुणगणाधारो ह्रदकल्पो स्वरूपः निर्मलज्ञानप्रतिपूर्णःसमे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रेसमो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्ग उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः?- उपशान्तरजा उपशान्तमोहनीय इति, किं कुर्वन्?- जीवनिकायान् रक्षन स्वतः परतश्च / सदुपदेशदानतो नरकादिपाताद्वेति, स्रोतोमध्यग: इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् / स्रोतोमध्यगत्वम्, स च किम्भूतः स्यादित्याह- सः आचार्योऽक्षोभ्यह्रदकल्पः सर्वतः सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुप्त्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराह- इह मनुष्यलोके | पूर्वव्यावर्णितस्वरूपाः महर्षयो महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्ते महर्षय इत्यत आह-न केवलमाचार्या ह्रदकल्पा ये चान्ये साधवस्तेऽपि ह्रदकल्पाः, किम्भूताः?- प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं-स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञानवन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयगहनतया संशयाना: न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि- प्रबुद्धाः प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततत्त्वा: प्रबुद्धाः, तथाभूता अपि कर्मगुरुत्वान्न ®स रक्षन् (प्र०) 0 आचारः श्रुतं शरीरं वचनं वाचना मतिः प्रयोगमतिः / एताः सुसंपदः खलु अष्टमी संग्रहपरिज्ञा // 1 // 0 ०मध्यगतः (मु०)। 384 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy