SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 383 // |स्वरूप: तप:संयमगुप्तेन निःसङ्गेन च विहर्त्तव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं | श्रुतस्कन्ध:१ पञ्चममध्ययन से बेमि तंजहा-अवि हरए पडिपुण्णे समंसि भोमे चिट्ठइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, लोकसारः, पास लोए महेसिणोजे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिवयंति त्तिबेमि ॥सूत्रम् 161 // पञ्चमोद्देशकः सेशब्दस्तच्छब्दार्थे, यदुण आचार्यो भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, अपिशब्दो सूत्रम् 161 सदाचारभङ्गसमुच्चयार्थः, ते चामी भङ्गा:- एको ह्रदो- जलाशय: परिगलत्स्रोता: पर्यागलस्रोताश्च, सीतासीतोदाप्रवाहह्रदवत्, अपरस्तु परिगलत्स्रोता: नो पर्यागलस्रोताः, पद्मह्रदवत्, तथा परो नो परिगलत्स्रोताः पर्यागलस्रोताश्च, लवणोदधिवत्, अपरस्तु नो परिगलत्स्रोता नो पर्यागलस्रोताश्च, मनुष्यलोकाबहिः समुद्रवत् / तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात्, साम्परायिककर्मापेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः आलोचनाया अप्रतिश्रावित्वात्, कुमार्गप्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात्, यदिवा धर्मभेदेन भङ्गायोज्यन्ते-तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत्, तृतीयभङ्गस्थस्त्वहालन्दिकः, सच क्वचिदर्थापरिसमाप्तावाचार्यादेर्निर्णयसद्भावात्, प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इति, इह पुन: प्रथमभङ्गपतितेनोभयसद्भाविनाऽधिकारः, तथाभूतस्यैवायं ह्रददृष्टान्तः, उदकाः करो यावत्कालेन शुष्यति तज्जघन्यं लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिंदिवलक्षणं लन्दम्, तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, // 383 / / पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपङ्क्तिहाराभिः षड्भिर्वीथीभिर्जिनकल्पिकवत्परिकल्पयन्ति / 0 पर्यागलस्रोतोवदर्थापेक्षया ग्राहकत्वात् 8 तृतीयभङ्गपतित इति गम्यम् /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy