SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 381 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, चतुर्थोद्देशकः सूत्रम् 160 एकाकिनोदोषा: अपि पातं विदध्यात् अप्युद्वन्धनं कुर्यात् न च स्त्रीषु मनः कुर्यादित्याह च- अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत्, तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्तं च काम! जानामि ते रूपं संकल्पात्किल जायसे / न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि // 1 // किं पुन: कारणं स्त्रीषु मनो न विधेयमित्याह- स्त्रीसङ्गप्रवृत्तानामपरमार्थदृशां पूर्व प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषह-8 स्यैहिकदुःखरूपा दण्डाः, तेच स्त्रीसम्भोगात्प्रथममेव क्रियन्त इति पूर्वमित्युक्तम्, पश्चाच्च विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा स्त्र्याद्यकार्यप्रवृत्तस्य पूर्वं दण्डपाता: पश्चाद्धस्तपादच्छेदादिकाः स्पर्शा भवन्ति, यदिवा पूर्व स्पर्शा: पश्चाद्दण्डपाता इति, अथवा पूर्वं दण्डा:-ताडनादिका: पश्चात्स्पर्शा:-सम्बाधनालिङ्गनचुम्बनादिकाः,. तद्यथा- बन्धानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावीलग्रहणाद्राजपुरुषावलोकनताडनेन मूर्च्छितराजकुमारीतद्दानतो वणिगिन्द्रत्तस्याग्रतो दण्डाः पश्चात्स्पर्शा इति, पूर्व वा सुखादिस्पर्शाः पश्चाद्दण्डा ललिताङ्गकस्येवान्येषांचोपपतीनामिति किंच- इत्येते स्त्रीसम्बन्धाः कलहः- सङ्गामस्तत्रासङ्गः-संबन्धः कलहासङ्गः, तत्करा भवन्ति, यदिवा कलहः- क्रोधः आसङ्गो-राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याह- ऐहिकामुष्मिकापायत: स्त्रीसङ्गप्रत्युपेक्षया / आगमेत्त त्ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण- दुःखं च ताः परिहर्तुमिति / पुनरपि तत्परिहरणोपायमाह- स स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां शृङ्गारकथां वा नो कुर्यात्, एवं च तास्त्यक्ता भवन्ति, तथा- तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत्, यतस्तन्निरीक्ष्यमाणं ®स्त्रीसङ्गप्रसक्तानाम० (प्र०)। 0 तद्दर्शनतो (मु०)। 0 संबन्धकलहासङ्गस्तत्करा (प्र०), संबन्धस्तत्करा (मु०)। // 381 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy