________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 380 // श्रुतस्कन्ध: 1 पश्चममध्ययन लोकसारः, चतुर्थोद्देशकः सूत्रम् 160 एकाकिनोदोषाः किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपसर्गादिकं कुर्यात्?, अथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात् किमेष स्त्रीजन: सुखं विदध्याद्? अन्यो वा पुत्रकलत्रादिको जनो मम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किं तत्प्रतीकारादिकं कुर्यादिति?। यदिवैवं स्त्रीजनस्वभावं चिन्तयेदिति सूत्रेणैव दर्शयति-स एष स्त्रीजन आरमयतीत्यारामः परमश्चासावारामश्च परमारामः ज्ञाततत्त्वमपि जनं हासविलासापाङ्गनिरीक्षणादिभिर्विब्बोकैर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके स्त्रिय: ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावत्स्वत एव परित्यजेत् / एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाह- मुनिना श्रीवर्द्धमानस्वामिनोत्पन्नज्ञानेनैव एतत् पूर्वोक्तम्, यथा स्त्रियो भावबन्धनरूपाः, प्रवेदितं प्रकर्षणादौ वा व्याख्यातमिति / एतच्च वक्ष्यमाणं प्रवेदितमित्याह- उत्- प्राबल्येन मोहोदयाद् बाध्यमान:- पीड्यमानः उद्बाध्यमानः कैः?- ग्रामधम्मैः ग्रामाः- इन्द्रियग्रामास्तेषां धर्माः- स्वभावा यथास्वं विषयेषु प्रवर्त्तनं तैरुद्वाध्यमानो गच्छान्तर्गतः सन् ब्लू गुदिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह- अपि: सम्भावनायाम्, निर्बल-नि:सारमन्तप्रान्तादिकं यद्रव्यं तदाशक:तद्भोजी स्यात्, यदिवा निर्गतं बलं-सामर्थ्यमस्येति निर्बलः एवम्भूतः सन्नासीत, बलाभावे च ग्रामधर्मोपशमदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति दर्शयति-अप्यवमौदर्यं कुर्याद्, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशम: स्यात् ततस्तदपि। वल्लचनकादिना द्वात्रिंशत्कवलमात्रं गृह्णीयात्, तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेशं कुर्यादित्येतद्दर्शयति- अप्यूज़ स्थानं तिष्ठेत्, शीतोष्णादौ कायोत्सर्गेणातापनां कुर्यात्, तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत्, निष्कारणे विहारो निषिद्धो मोहोपशमनार्थं तु कुर्यात्, किंबहुना?, येन येनोपायेन विषयेच्छा निवर्त्तते तत्तत्कुर्यात्, पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, 0विलासोपाङ्ग (मु०)। 0 ०णादौ व्याख्यातमिति (प्र०)।