________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 379 // श्रुतस्कन्ध:१ पञ्चममध्ययनं लोकसारः, चतुर्थीद्देशक: सूत्रम् 160 एकाकिनोदोषाः से तस्य कर्मणः साम्परायिकस्यसवा वेदविद्अप्रमादेन प्रमादाभावेन दशविधप्रायश्चित्तान्यतरभेदसम्यगनुष्ठानेन विवेक अभावं कीर्त्तयति वेदवित् तीर्थकरो वेदविद्वा-आगमविद्गणधरश्चतुर्दशपूर्वविद्वेति // 159 // किम्भूतः पुनरप्रमादवान् भवतीत्याह सेपभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए, दटुंविप्पडिवेएइ अप्पाणं किमेस जणो करिस्सइ?, एस से परमारामो जाओ लोगंमि इत्थीओ, मुणिणा हु एवं पवेइयं, उब्बाहिज्जमाणे गामधम्मेहिं अवि निब्बलासए अवि ओमोयरियं कुज्जा अवि उई ठाणं ठाइजा अवि गामाणुगामं दूइज्जिज्जा अवि आहारं वुच्छिदिज्जा अवि चए इत्थीसु मणं, पुव्वं दंडा पच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति, पडिलेहाए आगमित्ता आणविजा अणासेवणाए तिबेमि, से नो काहिए नोपासणिए नो संपसारणिए नो मामए णो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवाइसया पावं एयं मोणं समणुवासिज्जासिसूत्रम् 160 // त्तिबेमि ॥५-४॥लोकसारे चतुर्थोद्देशकः॥ Mस साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्त्तमानं वा कर्मविपाकं द्रष्टुं शीलमस्येति प्रभूतदर्शी, साम्प्रतेक्षितया न यत्किञ्चनकारीत्यर्थः, तथा प्रभूतं सत्त्वरक्षणोपायपरिज्ञानं संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसारस्वरूपदर्शीत्यर्थः, किंच- उपशान्त: कषायानुदयादिन्द्रियनोइन्द्रियोपशमावा, तथा पञ्चभिः समितिभिः समितः सम्यग्वा मोक्षमार्गमितः समितः, तथा ज्ञानादिभिः सहित:-समन्वितःसह हितेन वासहितः, सदासर्वकालं यतःसदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते / स च स्त्र्याद्यनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह- दृष्टा अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं विप्रतिवेदयति पर्यालोचयति, तद्यथा-सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तपञ्चमहाव्रतभारः शरच्छशाङ्कनिर्मलकुललब्धजन्मा अकार्याकरणतयोत्थित इत्येवमात्मानं पर्यालोचयति, तंचस्त्रीजनं // 379 //