SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 378 // सूत्रम् 159 एकाकिनोदोषाः निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते, इत्येवमादि संपरिमृजन् सर्वाः क्रियाः करोति / एवं चाप्रमत्ततया पूर्वोक्ता: क्रिया: कुर्वतोऽपि कदाचिदवश्यंभावितया यत्स्यात्तदाह-एकदा कदाचित्, गुणसमितस्य गुणयुक्तस्याप्रमत्तयते:रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः सङ्कचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्याञ्चिदवस्थायां काय:-शरीरं तत्संस्पर्शमनुचीर्णा:- कायसङ्गमागता: सम्पातिमादयःप्राणिन एके परितापमाप्नुवन्ति- एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थांतु सूत्रणेव दर्शयति- एके प्राणा: प्राणिनः अपद्रान्ति प्राणैर्विमुच्यन्ते, अत्र च कर्मबन्धं प्रति विचित्रता, तथाहि-शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतश्चान्तः कोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततरः। स च तेनैव भवेन क्षप्यत इति सूत्रेणैव दर्शयितुमाह- इह-अस्मिन् लोकेजन्मनि वेदनं- अनुभवनमिहलोकवेदनं तेन वेद्यं- अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोक- वेदनवेद्यापतितम्, इदमुक्तं भवति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म कायसङ्घटनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुट्टीकृतकर्मणि तु यद्विधेयं तदाह- यत्तु पुनः काकुट्या कृतं-आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया विवेकमेति विविच्यतेऽनेनेति विवेकः- प्रायश्चितं दशविधं तस्यान्यतरं भेदमुपैति, तद्विवेकं वा-अभावाख्यमुपैतितत्करोति येन कर्मणोऽभावो भवति / यथा च कर्मणो विवेको भवति तथा दर्शयितुमाह- एव मिति वक्ष्यमाणेन प्रकारेण क्षिप्यत (मु०)। ॐ क्षिप्यमा० (प्र०)। // 378 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy