________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 376 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, चतुर्थोद्देशकः सूत्रम् 158 एकाकिनोदोषा: वा मुह्यत इति / तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाच्च वाङ्मात्रेणापि कुप्यत: कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षोामानुग्राममेकाकिन: पर्यटतो यत्स्यात्तदाह- तस्याव्यक्तस्यैकचरस्य पर्यटतः सम्बाधयन्तीति सम्बाधा:-पीडाः, उपसर्गजनिता नानाप्रकारातङ्कजनिता वा भूयो भूयो बयः स्युः, ताश्चैकाकिनाऽव्यक्तेन निरवद्यविधिना दुरतिक्रमा दुरतिलङ्घनीयाः, किम्भूतस्य दुरतिक्रमा इत्याह- तासां नानाप्रकारनिमित्तोत्थापितानां बाधानामधिसहनोपायमजानानस्य सम्यकरणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति, ततश्चातङ्कपीडाकुलीभूतः सन्नेषणामपिलवयेत्, प्राण्युपमर्दमप्यनुमन्येत, वाक्कण्टकनुदितः सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्मविपाकापादिता एता: पीडाः परोऽत्र केवलं निमित्तभूतः, किं च आत्मद्रुहममर्याद मूढमुज्झितसत्पथम् / सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् // 1 // इत्यादिका भावना आगमापरिमलितमतेर्न भवेदिति / एतत्प्रदर्श्य भगवान् विनेयमाह- एतद् एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च ते तव मदुपदेशवर्त्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वर्ती भवेत्यर्थः / सुधर्मस्वाम्याहएतत् पूर्वोक्तं तत् कुशलस्य श्रीवर्द्धमानस्वामिनो दर्शनं अभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्तिनश्च गुणा इति।आचार्यसमीपवर्त्तिनाच किं विधेयमित्याह- तस्यआचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्त्तितव्यं हेयोपादेयार्थेषु, यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम्, तथा- तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तन्मुक्तिः, तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कार:- सर्वकार्येष्वग्रतः स्थापनम्, तस्य- आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम्, तथा तस्य संज्ञा तत्संज्ञा-तज्ज्ञानंतद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमति ®आत्मद्रोह (मु०)। // 376 //