________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 374 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, चतुर्थोद्देशकः सूत्रम् 158 एकाकिनोदोषा: किञ्चिदपि कर्मपरिणतेरशक्यमस्ति, तथाहि- स्वातन्त्र्यगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वर्त्तिन: क्वचित्प्रमादस्खलिते चोदिता: अवगणय्य सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाककटुकतामनवधार्य परमार्थं पृष्ठतः कृत्वा कुलपुत्रतां वाङ्गात्रादपि केचित्कोपनिध्नाः सुखैषिणोऽगणितापदो गच्छान्निर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवाप्नुवन्तीति, उक्तं च-जह सायरंमि मीणा संखोह सायरस्स असहंता / णिति तओ सुहकामी णिग्गयमित्ता विणस्संति // 1 // एवं गच्छसमुद्दे सारणवीईहिं चोईया संता / णिति तओ सुहकामी मीणा व जहा विणस्संति // 2 // गच्छंमि केइ पुरिसा सउणी जह पंजरंतरणिरुद्धा / सारणवारणचोइय पासत्थगया पविहरंति // 3 // जहा दियापोयमपक्खजायं, सवासया पविउमणं मणागं / तमचाइया तरुणमपत्तजायं, ढक्कादि अवत्तगम हरेजा॥४॥ एवमजातसूत्रवय:पक्षस्तीर्थिकध्वाङ्गादिभिर्विलुप्यते गच्छालयान्निर्गतो वामात्रेणापि चोदितः सन् इति // 157 / / एतद्दर्शयितुमाह वयसावि एगे बुइया कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुजो 2 दुरइक्कम्मा अजाणओ अपासओ, एयंतेमा होउ, एयं कुसलस्स दंसणं,तद्दिट्टीए तम्मुत्तीएतप्पुरक्कारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाई पंथनिज्झाई पलिबाहिरे, पासिय पाणे गच्छिज्जा ॥सूत्रम् 158 // क्वचित्तपःसंयमानुष्ठानादाववसीदन्तः प्रमादस्खलिता वा गुर्वादिना धर्मेण वचसाऽपि एके अपुष्टधर्माणः अनवगतपरमार्थाः ®यथा सागरे मीनाः संक्षोभं सागरस्यासहमानाः / निर्गच्छन्ति ततः सुखकामिनो निर्गतमात्रा विनश्यन्ति // 1 // एवं गच्छसमुद्रे स्मारणवीचिभिर्नोदिताः सन्तः / निर्गच्छन्ति ततः सुखकामिनो मीना इव यथा विनश्यन्ति / / 2 / / गच्छे केचित् पुरुषाः शकुनयो यथा पञ्जरान्तरनिरुद्धाः / स्मारणवारणचोदिताः पार्श्वस्थतां गताः परित्यजन्ति / / 3 / / यथा द्विजपोतमजातपक्षी स्वकादावासकात् प्लवितुमनसं मनाम् / तत्राशक्तं तरुणमजातपत्रं, ढङ्कादयोऽव्यक्तगर्म हरेयुः (रन्ति) // 4 // 8 // 374 //