________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 372 // मुनित्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोषं प्रदर्श्य विरत एव मुनिर्भवतीत्ये- श्रुतस्कन्धः१ तत्प्रतिपादितम्, अस्मिंश्च एकचरस्यामुनिभावे दोषोद्भावनत: कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्र | पञ्चममध्ययनं लोकसारः, गामाणुगामंदूइज्जमाणस्स दुजायं दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो॥सूत्रम् 157 // चतुर्थोद्देशकः ग्रसते बुद्ध्यादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तम्, दूयमानस्य अनेकार्थत्वाद्धातूनां विहरत: | सूत्रम् 157 एकाकिनःसाधोर्यत्स्यात् तद्दर्शयति- दुष्टं यातं दुर्यातम्, गमनक्रियाया गर्दा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहन्न एकाकि नोदोषाः कस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजङ्घाच्छेदवत्, तथा दुष्ट पराक्रान्तं-आक्रान्तं स्थानमेकाकिनो भवति, स्थूलभद्रेाश्रितोपकोशागृहसाधोरिवेति, यदिवा- चतुष्प्रोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतया अक्षोभेऽपि दुष्पराक्रान्तमेवेति, एतच्चन सर्वस्यैव दुर्यातं दुष्पराक्रान्तं च भवतीत्यतो विशिनष्टि अव्यक्तस्य भिक्षोरिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य?-8 अव्यक्तस्य, सचाव्यक्तः श्रुतवयोभ्यां स्यात्, तत्र श्रुताव्यक्तो येनाचारप्रकल्पोऽर्थतो नाधिगतो भवति गच्छगतानां तन्निर्गतानां तु नवमपूर्वतृतीयवस्त्विति, वयसा चाव्यक्तआषोडशवर्षाद्गच्छगतानांतन्निर्गतानां च त्रिंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनात इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्भावादिति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापि न कल्पते, बालतया सर्वपरिभवास्पदत्वाद् विशेषत: स्तेनकुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकि // 372 // विहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम्, अस्यापि कारणाभावे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्याभाषैषणादिविषया / (r) गतिभेददुष्ट (प्र०)। (r) तस्याप्ये (प्र०) /