SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 371 // |श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, तृतीयोद्देशक: सूत्रम् 156 अपरिग्रहस्वरूपः चतुर्थोद्देशकः पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वंवा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः / एतच्च न येन केनचिच्छक्यमनुष्ठातुमित्याह- नैतत्सम्यक्त्वादित्रयं सम्यगनुष्ठातुं शक्यम्, कैः?- शिथिलैः अल्पपरिणामतया मन्दवीर्यैः संयमतपसोधृतिदृढिमरहितैरिति, किंच-आर्द्रः-पुत्रकलत्राद्यनुषङ्गजनितस्नेहादाीक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किंच-गुणा:-शब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किंच-वक्र: समाचारो येषां ते तथा तैः, मायाविभिरित्यर्थः, तथा- पमत्तेहिं ति विषयकषायादिप्रमादैः प्रमत्तैरिति, किंचअगारं-गृहं तद् आद्यक्षरलोपादारमित्युक्तं तदगारमावसद्भिः-सेवमानैः, पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयम् / कथं तर्हि शक्यमित्याह- मुनिः जगत्त्रयस्य मन्ता मौनं- मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं समादाय गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्मशरीरं वेति / कथं च तद्भुननमित्याह- प्रान्तं- पर्युषितं वल्लचनकाद्यल्पंवा, तदपि रूक्षं विकृतेरभावात्, तत् सेवन्ते तदभ्यवहरन्ति, के ते?- वीरा: कर्मविदारणसहिष्णवः, किंभूता:?- सम्यक्त्वदर्शिनः समत्वदर्शिनो वा। यश्च प्रान्तरूक्षसेवीस किंगुण: स्यादित्याह- एषः अनन्तरोक्तविशेषणविशिष्टः ओघो- भवौघः संसारस्तं तरतीति, कोऽसौ?मुनिः, वर्तमानसामीप्ये वर्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो?- यःसावद्यानुष्ठानाद्विरत इत्येवं व्याख्यातः / इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् // 156 // तृतीयोद्देशकः समाप्तः // 5-3 // // 371 // ॥पञ्चमाध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्ध:- इहाद्योद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy