________________ | श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ || // 369 // निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग इति भावार्थः / किं च-अन्येन प्रकारेणान्यथा-विषयकषायाभिभूतं हिंसादिकर्मसु / श्रुतस्कन्ध:१ प्रवृत्तं लोकं गृहस्थलोकं पाखण्डिलोकं वा पचनपाचनोद्देशिकसचिताहारादिप्रवृत्तमुत्प्रेक्षमाणोऽन्यथा वा आत्मानं पञ्चममध्ययन लोकसारः, निवृत्ताशुभव्यापारमुत्प्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति।लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह- इति पूर्वोक्तैर्हेतुभिर्यद्बद्धं तृतीयोद्देशकः कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् / कथं परिहरतीत्याह-स कर्मपरिहर्ता सूत्रम् 155 अपरिग्रहकायवाङ्मनोभिर्न हिनस्ति जन्तून् न घातयत्यपरै प्यनुमन्यते / किं च- पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकार स्वरूप: वा संयमं करोति संयमयति, आचारक्विबन्तं वैतत् संयम इवाचरति संयमयति / किंच-नो पगब्भइ गल्भधाष्टये असंयमकर्मसु प्रवृत्तः सन्न प्रगल्भत्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिह्वेति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिन क्रुध्यति, न जात्यादिमानमुद्वहति, न वञ्चनां विधत्ते, न लुभ्यति। किमाकलय्यैतत्कुर्यादित्याह- उत्प्रेक्षमाण: अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यत: प्राणिनो न हिंस्यादिति / प्राणिनां प्रत्येकं सातमुत्प्रेक्षमाणश्च किं कुर्यादित्याह-वर्ण्यते-प्रशस्यते येन स वर्ण:-साधुकारस्तदादेशी वर्णादेशी वर्णाभिलाषी सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा-तपः संयमादिकमप्यारम्भं यश:कीर्त्यर्थं नारभते, प्रवचनोद्भावनार्थं त्वारभते, तदुद्भावकाश्चामी-प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च / विद्यासिद्धः ख्यात: कविरपि चोद्भावकास्त्वष्टौ // 1 // यदिवा वर्णो- रूपं तदादेशी- तदभिलाषुकः नोद्वर्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह- एको मोक्षो // 369 // शेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा- मोक्षे तदुपाये वा दत्तैकदृष्टिर्न कञ्चन (r) सच्चित (प्र०)।