________________ श्रीआचारानं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 368 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, तृतीयोद्देशकः सूत्रम् 155 अपरिग्रहस्वरूप: सङ्गामयुद्धं परीषहादिरिपुयुद्धं त्वार्यं तद् दुर्लभमेव तेन युद्ध्यस्व, ततो भवतोऽशेषकर्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः। तच्च भावयुद्धार्ह शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेषकर्मक्षयं विधत्ते, मरुदेवीस्वामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैर्भरतवत्, कश्चिदपार्द्धपुद्गलपरावर्तेन, अपरोन सेत्स्यत्येव, किमित्येवं यत आह-यथा येन प्रकारेण अत्र अस्मिन् संसारे कुशलैः तीर्थकृद्भिः परिज्ञाविवेकः परिज्ञानविशिष्टता, कस्यचित् कोऽप्यध्यवसाय: संसारवैचित्र्यहेतुः भाषितः प्रज्ञापितः, स च मतिमता तथैवाभ्युपगन्तव्य इति / तदेव परिज्ञाननानात्वं दर्शयन्नाह- लब्ध्वाऽपि दुर्लभं मनुजत्वं प्राप्य च मोक्षैकगमनहेतुं धर्मं पुनरपि कर्मोदयात्तस्मात् च्युतो बालः अज्ञः गर्भादिषु रज्यते गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयः तेष्वेव गायमुपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति, यदिवा धर्माच्च्युतस्तत्करोति येन गर्भादिषु यातनास्थानेषु सङ्गमुपयाति, रिजइ त्ति वा क्वचित्पाठः, रीयते- गच्छतीत्यर्थः। स्यात्- क्वोक्तमिदं? यत् प्राग व्यावर्णितमित्याह- अस्मिन्नि ति आर्हते प्रवचने ‘एतत्' पूर्वोक्तं प्रकर्षणोच्यते प्रोच्यते / एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह- रूपे चक्षुरिन्द्रियविषयेऽध्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ क्षणे प्रवर्त्तते, क्षणु हिंसायां' क्षणनं क्षणोहिंसा तस्यां प्रवर्त्तते, वाशब्दादन्यत्र वानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूपोपादानम्, आस्रवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच्च तदुपादानमिति / बालो रूपादिविषयनिमित्तं धर्माच्च्युतः सन् गर्भादिषु रज्यते, अत्रार्हते मार्गे इदमुच्यते, यस्तु पुनर्गर्भादिगमनहेतुं ज्ञात्वा विषयसङ्गं धर्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्त्तते स किंभूतः स्यादित्याहस जितेन्द्रियो, हुरवधारणे, स एवैक:- अद्वितीयो मुनिः जगत्त्रयमन्ता संविद्धपथः सम्यग्विद्धस्ताडितः क्षुण्णः पन्थाः-मोक्षमार्गो ज्ञानदर्शनचारित्राख्यो येन स तथा, संविद्धभये त्ति वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्यास्रवद्वारेभ्यो हिंसादिभ्यो