SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 366 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, तृतीयोद्देशक: सूत्रम् 154 अपरिग्रहस्वरूप: रायमाह योगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वान्नो पश्चान्निपातीत्यतस्तादृश एव- गृहस्थतुल्य एव स्याद्, आम्रवद्वाराणामुभयेषामप्यसंवृतत्वात्, उदायिनृपमारकवत् / अन्येऽपियेसावद्यानुष्ठायिनस्तेऽपि तादृक्षा एवेति दर्शयन्नाह-8 येऽपि स्वयूथ्या: पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थं तमेव लोकमन्वाश्रिता अन्वेषयन्ति / वा तेऽपि गृहस्थतुल्या एव भवेयुः॥१५३॥ स्वमनीषिकापरिहारार्थमाह एयं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे ___ अझंझे, इमेण चेव जुज्झाहि,किं ते जुज्झेण बज्झओ? // सूत्रम् 154 // एतद् यदुत्थाननिपातादिकं प्रागुपन्यस्तं तत्केवलज्ञानावलोकनेन नियाय त्ति ज्ञात्वा मुनिना तीर्थकृता प्रवेदितं कथितम् / इदं चान्यत्प्रवेदितमित्याह- इह अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितःसन् आज्ञा तीर्थकरोपदेशमाकानितुंशीलमस्येत्याज्ञाकासीआगमानुसारप्रवृत्तिकः, कश्चैवम्भूतः?- पण्डित: सदसद्विवेकज्ञः अस्निह: स्नेहरहितः / रागद्वेषविमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यत्नवान् स्यादित्येतदाह- पूर्वरात्रं- रात्रे: प्रथमो यामोऽपररात्रं- रात्रे: पाश्चात्यः एतद्यामद्वयमपि यतमानः सदाचारमाचरेत्, मध्यवर्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रादिकं विदध्यात्, रात्रियतनाप्रतिपादनेन चायपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात् / किं च- सदा सर्वकालं शीलं अष्टादशभेदसहस्रसङ्गयं संयम वा यदिवा चतुर्दाशीलं-महाव्रतसमाधानं तिम्रो गुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्येतच्छीलंसम्प्रेक्ष्य मोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् / कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशील (r) विप्रमुक्तो (प्र०)। // 366 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy