SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 365 // श्रुतस्कन्धः१ पञ्चममध्ययन लोकसारः, तृतीयोद्देशकः सूत्रम् 153 अपरिग्रहस्वरूप: तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुःसंयमानुष्ठाने तपसि च वीर्यं नो निहन्यात् नो निगूहयेद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म / / 152 // कश्चैवम्भूतः स्यादित्याह जे पुव्वुट्ठाई नो पच्छानिवाई, जे पुव्वुट्टाई पच्छानिवाई, जे नो पुवुट्ठायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति॥सूत्रम् 153 // यः कश्चिद्विदितसंसारस्वभावतया धर्माचरणैकप्रवणमना: पूर्व-प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातुंशीलमस्येति पूर्वोत्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं वा निपातः 8 सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत् प्रथमो भङ्गः। द्वितीयभङ्गसूत्रेणैव दर्शयन्नाहपूर्वमुत्थातुंशीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियोगात्पश्चान्निपाती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति / तृतीयभङ्गस्य चाभावादनुपादानम्, स चायं- जे नो पुव्वुट्ठायी पच्छानिवाती, तथाहि-उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सति धर्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्तेति। चतुर्थभङ्गदर्शनाय त्वाह-योहिनोपूर्वोत्थायी पश्चान्निपातीति सोऽविरत एव गृहस्थःसन्नोत्थायीभवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थानाविनाभावित्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः, तेषामप्युभयासद्भावादिति। ननु च गृहस्था एव चतुर्थभङ्गपतितायुक्ता वक्तुम्, तथाहि-तेषांसावधयोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दरारोपाभावान्निपाताभावः,शाक्यादिरपि चतुर्थभङ्गपतित इत्यत आह-सोऽपिशाक्यादिर्गण: पञ्चमहाव्रतभारारोपणाभावेन सावद्य // 36
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy