SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, तृतीयोद्देशक: सूत्रम् 152 अपरिग्रहस्वरूप: श्रीआचाराति सुब्ब्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाचं-तीर्थकराज्ञामागमरूपां श्रुत्वा आकर्ण्य मेधावी मर्यादाव्यवस्थितः सश्रुतिको नियुक्ति- हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा पण्डितानां गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तपरिग्रह-8 श्रीशीला० वृत्तियुतम् परित्यागादपरिग्रहो भवति / स्यादेतत्- कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते?,8 श्रुतस्कन्धः१ उच्यते, धर्मकथाऽवसरे, किम्भूतस्तै: पुनर्धर्म:प्रवेदित इत्यारेकापनोदार्थमाह-समिय त्ति 'समता' समशत्रुमित्रता तयाऽऽय-8 / / 364 // र्द्धर्मः प्रवेदित इति, उक्तं च जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति / संथुणइ जो अजिंदति महेसिणो तत्थ समभावा // 1 // यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा चोक्तं जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई त्यादि, अथवा शमिनो भावः शमिता तया सर्वहेयधारातीयवर्तिभिः आर्यैः प्रकर्षणादौ वा धर्मो वेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्म: प्रज्ञापित इतियावत् / स्याद्- अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्य-8 तस्तव्यदासार्थ भगवानेवाह जहेत्थे त्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह- यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः झोसिओत्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धानं सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेतिसन्धिः- अष्टप्रकारकर्मसन्ततिरूपः स झोषित:-क्षपितः अतो य एव तीर्थकृद्भिर्द्धर्मोऽभिहित: स एव मोक्षमार्गो नापर इत्येतदेवाह- यथाऽत्र मया सन्धिोषितः एवमन्यत्र- अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः-कर्मसन्ततिरूप: दुझेष्यो भवति-दुःक्षयो भवति, असमीचीनतया तदुपायाभावाद, यदि नाम भगवताऽत्र कर्मसन्धिोषितस्तत: किमित्याह- यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेण 0'वई'त्ति (मु०)। 0 यश्चन्दनेन बाहू आलिम्पति वास्या वा तक्ष्णोति / संस्तौति यश्च निन्दति महर्षयस्तत्र समभावाः // 1 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy