________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः१ / / 363 // च्छूतं च मया तीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्मं ममैतच्चेतसि व्यवस्थितम्, किं तदध्यात्मनि स्थितमिति दर्शयतिबन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा अध्यात्मन्येव ब्रह्मचर्ये व्यवस्थितस्यैवेति / किं च- इत्थ इत्यादि, अत्र अस्मिन् / परिग्रहे जिघृक्षिते विरतः, कोऽसौ?-नास्यागारं- गृहं विद्यत इत्यनगारः, स एवम्भूतो दीर्घरात्रं यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् तितिक्षेत सहेत / पुनरप्युपदेशदानायाह- पमत्ते इत्यादि, प्रमत्तान्-विषयादिभिः प्रमादैर्बहिर्द्धर्माद्व्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् / दृष्ट्वा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति / किं च- एय मित्यादि, ‘एतत् पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं- सर्वज्ञोक्तं सम्यग् अनुवासयेः प्रतिपालयेः इति अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् // 151 // इति लोकसाराध्ययने द्वितीयोद्देशकः // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, तृतीयोद्देशकः सूत्रम् 152 अपरिग्रहस्वरूपः ॥पञ्चमाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते- अस्य चायमभिसम्बन्धः-इहानन्तरोक्तोद्देशकेऽविरतवादी परिग्रहवानित्यभिहितम्, इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं आवंती केयावंती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्थ मए संधी झोसिए एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहणिज्ज वीरियं // सूत्रम् 152 // 8 // 363 // यावन्त: केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव-अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रहवन्तो भवन्ति, यदिवैतेष्वेव षट्स जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति / स्यात्- कथमपरिग्रहभावः स्यादित्याह-सोच्चा इत्यादिवइ