SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 362 // सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुजानस्य कर्मबन्धजनितमहाभयहेतुत्वान्महाभयम्, तथैतद्धर्मशरीरं समस्ता-8 श्रुतस्कन्धः१| च्छादनाभावाद्वीभत्सं परेषां महाभयम्, तन्निरवद्यविधिपालनाभावाच्च महाभयमिति / यतः परिग्रहो महाभयमतोऽपदिश्यते पचममध्ययन लोकसारः, लोग इत्यादि, 'लोकस्य' असंयतलोकस्य वित्तं द्रव्यमल्पादिविशेषणविशिष्टम्, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालङ्कारे, द्वितीयोद्देशकः लोकवित्तं लोकवृत्तं वा आहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयाय पुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया सूत्रम् 151 परिहरेत् / तत्परिहर्तुश्च यत्स्यात्तदाह-एए संगे इत्यादि, ‘एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसङ्गान् वा अविजानतः मुनिभाव: अकुर्वाणस्य तत्परिग्रहजनितं महाभयं न स्यात् / / 150 // किंच से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खूविपरिक्कमा, एएसुचेव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयंच मे-बंधपमुक्खो अज्झत्थेव, इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिवए, एयं मोणं सम्मं अणुवासिज्जासि // सूत्रम् १५१॥त्तिबेमि // लोकसाराध्ययने द्वितीयोद्देशक:५-२॥ से तस्य परिग्रहपरिहर्तुः सुष्ठ प्रतिबद्धं सुप्रतिबद्धं सुष्पनीतं सूपनीतं ज्ञानादि इत्येतत् ज्ञात्वा हे पुरुष! मानव! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षकदृष्टिर्वा सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वा पराक्रमस्वेति / अथ किमर्थं पराक्रमणोपदेश इत्यत आह- एएसुचेवे त्यादि, य इमे परिग्रहविरता: परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्य नान्येषु, नवविधब्रह्मचर्यगुप्त्यभावाद्, यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्यं तदेतेष्वेवापरिग्रहवत्सु, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह- से सुअं च मे इत्यादि, तद्यत् कथितं यच्च कथयिष्यामि
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy