________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 361 // आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुंवा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसुचेव परिग्गहावंती, श्रुतस्कन्धः१ एतदेव एगेसिं महब्भयं भवइ, लोगवित्तं च णं उवेहाए, एए संगे अवियाणओ।।सूत्रम् 150 // पञ्चममध्ययन लोकसारः, यावन्त: केचन लोके परिग्रहवन्तः परिग्रहयुक्ताः स्युस्त एवम्भूतपरिग्रहसद्भावादित्याह-से अप्पंवा इत्यादि, तद्रव्यं यत्परिगृह्यते * द्वितीयोद्देशकः तदल्पंवा-स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा स्यात् मूल्यतस्तृणकाष्ठादि सूत्रम् 150 मुनिभावः प्रमाणतो वज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि, एतच्च चित्तवद्वा स्यादचित्तवद्वेति / एतेन च परिग्रहण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सुगृहस्थेष्वन्तर्वर्त्तिनो वतिनोऽपि स्युः, यदिवैतेष्वेव षट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूछ| कुवन्तः परिग्रहवन्तो भवन्ति, यथा वा विरतो विरतिवादंवदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम्, एकदेशापराधादपि सर्वापराधितासम्भवः, अनिवारितास्रवत्वात् / यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बरा: सरजस्कबोटिकादयोऽपरिग्रहा: स्युः, तेषां तदभावात्, नैतदस्ति, तदभावादित्यसिद्धो हेतुः, तथाहि-सरजस्कानामस्थ्यादिपरिग्रहाबोटिकानामपि पिच्छिकादिपरिग्रहाद् अन्तशःशरीराहारादिपरिग्रहसद्भावात्, धर्मोपष्टम्भकत्वाददोष इति चेद् तद् इतरत्रापि समानम्, किं दिगम्बराग्रहग्रहेणेति / एतच्चाल्पादिपरिग्रहण परिग्रहवत्त्वमपरिग्रहाभिमानिनांचाहारशरीरादिकं महतेऽनायेति दर्शयन्नाह- एतदेवे त्यादि, एतदेवअल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां- परिग्रहवतां नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धर्मोपकरणस्याभावाद् गृहिगृहे 7 स्युस्तत(त्र) (मु०)। भवन्ति तथा चाविरतो (मु०)। // 361 //