SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 360 // श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, द्वितीयोद्देशकः सूत्रम् 149 मुनिभाव: पष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाच्चयस्तदभावेन तद्विचटनादपचयः, चयापचयौ विद्येते यस्य तच्चयापचयिकम्, अत एव विविधः परिणामः-अन्यथाभावात्मको धर्म:-स्वभावो यस्य तद्विपरिणामधर्मम् / यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुबन्धः का मूर्छा?, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह- पासह इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धिम्, भिदुरधर्माद्याघ्रातौदारिकं पञ्चेन्द्रियनिर्वृत्तिलाभावसरात्मकम्, दृष्ट्वा च विविधातङ्कजनितान् स्पर्शानध्यासयेदिति // 148 // एतत्पश्यतश्च यत्स्यात्तदाह समुप्पेहमाणस्स इक्काययणरयस्स इह विप्पमुक्कस्स नत्थि मग्गे विरयस्स त्तिबेमि।।सूत्रम् 149 // ___ सम्यगुत्प्रेक्षमाणस्य पश्यतोऽनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः, किंच- आङ्- अभिविधौ समस्तपापारम्भेभ्य आत्मा आयत्यते- आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत इत्यायतनं ज्ञानादित्रयं एकं- अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य, किं च- इह शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य नास्ति न विद्यते, कोऽसौ?- मार्गो नरकतिर्यमनुष्यगमनपद्धतिः, वर्तमानसामीप्ये वर्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तम्, यदिवा तस्मिन्नेव जन्मनि समस्तकर्मक्षयोपपत्तेर्नास्ति नरकादिमार्गः, कस्येति दर्शयति-विरतस्य हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य // 149 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् सुधर्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि, नस्वमतिविरचनेनेति। विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतं 'अविरतवादी परिग्रहवानि ति यदुक्तं तत्प्रतिपादयन्नाह 0 पूर्वोक्तरूपसन्धिम् (प्र०)। // 360 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy