________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 358 // पुट्विंपेयंपच्छापेयंभेउरधम्मं विद्धंसणधम्ममधुवं अणिइयं असासयंचयावचइयं विप्परिणामधम्म, पासह एयरूवसंधिं। सूत्रम् 148 श्रुतस्कन्ध:१ पश्चममध्ययन लोकसारः, एषः अनन्तरोक्तो यः परीषहाणां प्रणोदकः समिया सम्यक् शमिता वा शमोऽस्यास्तीति शमी तद्भावः शमिता पर्याय: द्वितीयोद्देशकः प्रव्रज्या सम्यक् शमितया वा पर्याय:- प्रव्रज्याऽस्येति विगृह्य बहुव्रीहिःस सम्यक्पर्याय: शमितापर्यायो वा व्याख्यातो नापर सूत्रम् 148 इति / तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुतां प्रतिपादयन्नाह- जे असत्ता इत्यादि, येऽपाकृतमदनतया मुनिभाव: समतृणमणिलेष्टुकाञ्चनाः समतापन्नाः पापेषु कर्मस्वसक्ताः-पापोपादानानुष्ठानारताः उदाहु कदाचित्तान् तथाभूतान् साधून् आतङ्का आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः स्पृशन्ति अभिभवन्ति पीडयन्ति / यदि नामैवं ततः किमित्याहइति उदाहुइत्यादि, 'इति'एतद्वक्ष्यमाणमुदाहृतवान्- व्याकृतवान्, कोऽसौ?- धीरोधी:-बुद्धिस्तया राजते,सच तीर्थकृद्गणधरो वा, किं तदुदाहृतवान्?- तैरातङ्कः स्पृष्टः सन् तान् स्पर्शान्- दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्- सहेत / किमाकलय्येत्याह- से पुत्व मित्यादि, स स्पृष्टः पीडित: आशुकारिभिरातबॅरेतद्भावयेद् यथा पूर्वमप्येतद्-असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यम्, पश्चादप्येतन्मयैव सहनीयम्, यतः संसारोदरविवरवर्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादितास्ते रोगातङ्का न भवेयुः, तथाहि-केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्बद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्मावश्यं वेद्यं नान्यथा तन्मोक्षः, 8 0-0-0-0 कर्मबन्धश्चतुर्विधः, तद्यथा-प्रकृतिबन्धः 1 स्थितिबन्ध: 2 अनुभागबन्धः 3 प्रदेशबन्ध: 4, तत्र प्रकृतिबन्धोऽष्टविधः, ज्ञानावरणीयाद्यन्तरायान्तः, एतेऽष्टावपि मूलभेदाः, उत्तरभेदास्तु ज्ञानावरणीये पञ्च, दर्शनावरणीये नव, वेदनीये द्वौ, मोहनीयेऽष्टाविंशतिः, आयुषश्चत्वारः, नाम्नः द्विचत्वारिंशत् सप्तषष्टिा त्रिन-8 वतिर्वा त्र्युत्तरशतं वा, गोत्रे द्वौ, अन्तराये पञ्च, इति मूलोत्तरप्रकृतिबन्धः / स्थितिबन्धे ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायेषु त्रिंशत्कोटीकोट्य उत्कृष्टा 2 // 358 //