________________ श्रीआचाराडू नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 357 // वेदित:- कथितः प्रवेदित इति / न केवलमनन्तरोक्तो वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति तदाह- उठ्ठिए इत्यादि, सन्धिमधि- श्रुतस्कन्धः१ गम्योत्थितो धर्माचरणाय क्षणमप्येकं न प्रमादयेत् / किं चापरमधिगम्येत्याह- जाणित्तु इत्यादि, ज्ञात्वा प्राणिनां प्रत्येकं दुःखं / पञ्चममध्ययनं लोकसारः, तदुपादानं वा कर्म तथा प्रत्येकं सातं च-मनआह्लादि ज्ञात्वा समुत्थितो न प्रमादयेत् / न केवलं दुःखं कर्म वा प्रत्येकम्, द्वितीयोद्देशकः तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह- पुढो इत्यादि, पृथग्- भिन्न: छन्द:- अभिप्रायो येषां ते / सूत्रम् 148 मुनिभाव: पृथक्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, इहे ति संसारे संज्ञिलोकेवा, के ते?- मानवा: मनुष्याः, उपलक्षणार्थत्वादन्येऽपि, संज्ञिनां पृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह- पुढो इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक् प्रवेदितम्, सर्वस्य स्वकृतकर्मफलेश्वरत्वात् नान्यकृतमन्य उपभुङ्क्ते इति। एतन्मत्वा किं कुर्यादित्याह-से इत्यादि, 'सः' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तथाऽनपवदन्-अन्यथैव व्यवस्थितं वस्त्वन्यथा वदन्नपवदन्, नापवदन् अनपवदन्, मृषावादमब्रुवन्नित्यर्थः, पश्य च त्वंतस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम् / एतद्विधायी च किमपरं कुर्यादित्याह- पुट्ठो इत्यादि, स पञ्चमहाव्रतव्यवस्थित: सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यत: स्पृष्टः परीषहोपसर्गस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा तत्सहिष्णुतया अनाकुलो विविधैरुपायैः-प्रकारैः। संसारासारभावनादिभिः प्रेरयेत्, तत्प्रेरणंच सम्यक्सहनम्, न तत्कृतया दुःखासिकयाऽऽत्मानं भावयेदिति यावत् // 147 // यो हि सम्यक्करणतया परीषहान् सहेत स किंगुण: स्यादित्याह एस समिया परियाए वियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से // 357 //