SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / 356 // यावन्त: केचन लोके मनुष्यलोके अनारम्भजीविनः आरम्भः- सावद्यानुष्ठानं प्रमत्तयोगो वा, उक्तं च आदाणे निक्खेवेल श्रुतस्कन्धः 1 भासुस्सग्गे अठाणगमणाई। सव्वो पमत्तजोगो समणस्सवि होइ आरंभो॥१॥तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलमेषामिति पञ्चममध्ययनं लोकसारः, अनारम्भजीविनो यतयः समस्तारम्भनिवृत्तास्तेष्वेव गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वनारम्भजीविनो भवन्ति, द्वितीयोद्देशकः एतदुक्तं भवति-सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवन्निर्लेपा एव भवन्ति न | सूत्रम् 147 | मुनिभाव: / यद्येवं ततः किमित्याह- अत्र अस्मिन् सावद्यारम्भे कर्तव्ये उपरतः सङ्कचितगात्रः, अत्र वाऽऽर्हते धर्मे व्यवस्थित उपरतः | पापारम्भात्, किं कुर्यात् स?- तत् सावद्यानुष्ठानायातं कर्म झोषयन् क्षपयन् मुनिभावं भजत इति / किमभिसन्धायात्रोपरतः स्यादित्याह- अयं संधी इत्यादि, अविवक्षितकर्मका अप्यकर्मका धातवो, यथा पश्य मृगोधावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगेऽप्ययंसन्धिरिति प्रथमा कृतेति, अय मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणः सन्धिः अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मन्यवस्थापितमद्राक्षीद्भवानित्यत: क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् / कश्चन प्रमत्तः स्यादित्याह-जे इमस्स इत्यादि, 'य' इत्युपलब्धतत्त्वः अस्य' अध्यक्षस्य विशेषेण गृह्यते अनेनाष्टप्रकारं कर्म तद्वेतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत इति विग्रह:-औदारिकं शरीरं तस्य अयं वार्त्तमानिकक्षण: एवम्भूतः सुखदुःखान्यतररूपश्च गत: एवम्भूतश्च भावीत्येवं यः क्षणान्वेषणशील: सोऽन्वेषी सदाऽप्रमत्तः स्यादिति / स्वमनीषिकापरिहारार्थमाह- एस मग्गे 8 इत्यादि, ‘एषः' अनन्तरोक्तो 'मार्गो' मोक्षपथः आर्यैः सर्वहेयधारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा "आदाने निक्षेपे भाषायामुत्सर्गे च स्थाने गमनादौ / सर्वः प्रमत्तयोगः श्रमणस्यापि भवत्यारम्भः / / 1 / / // 356 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy