________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 355 // श्रुतस्कन्धः 1 पश्चममध्ययन लोकसारः, द्वितीयोद्देशकः सूत्रम् 147 मुनिभावः मनुजस्यैवोपदेशार्हत्वान्मानवग्रहणम्, कर्मणि अष्टप्रकारे बिभत्सिते कोविदाः कुशलाः, न धर्मानुष्ठान इति, के पुनस्ते ये सततं धर्म नाभिजानन्ति कर्मबन्धकोविदाश्चेति?, अत आह-जे अणुवरया इत्यादि, ये केचनानिर्दिष्टस्वरूपा: 'अनुपरताः' पापानुष्ठानेभ्योऽनिवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषा विद्या अतो विपर्ययेणाविद्या तया परि-समन्तात् मोक्षमाहुः ते धर्म नाभिजानन्त इति सम्बन्धः, धर्ममजानानाश्च किमाप्नुयुरित्याह- आवटें इत्यादि, भावावर्त्तः- संसारस्तमरघट्टघटीयन्त्रन्यायेनानुपरिवर्त्तन्ते, तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत् / इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् // 248 // इति लोकसाराध्ययने प्रथमोद्देशकः॥५-१॥ ॥पञ्चमाध्ययने द्वितीयोद्देशकः॥ उक्त : प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः- इह प्रागुद्देशके एकचर्याप्रतिपन्नोऽपि सावधानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तम्, इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नेसी एस मग्गे आरिएहिं पवेइए, उट्ठिए नोपमायए, जाणित्तु दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे अणवयमाणे , पुट्ठोफासे विपणुन्नए।सूत्रम् 147 // (c) अणवययाणे (प्र०)। // 355 //