________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 353 // दिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपङ्क्त्यादिरिति, यद्यद्देशाद्देशान्तरा श्रुतस्कन्ध:१ वाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः // 245 // साम्प्रतं क्षेत्रादिकमाह पञ्चममध्ययन लोकसारः, नि०-खित्तं तु जंमि खित्ते कालो काले जहिं भवे चारो। भावंमि नाणदसणचरणं तु पसत्थमपसत्थं // 246 // प्रथमोद्देशकः क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं स नियुक्तिः 246-248 कालचारः, भावे तु द्विधा चरणं- प्रशस्तमप्रशस्तंच, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तंगृहस्थान्यतीर्थिकाणा चारशब्दस्य मिति गाथार्थः / / 246 // तदेवं सामान्यतो द्रव्यादिकं चारं प्रदर्श्य प्रकृतोपयोगितया यते वचारं प्रशस्तं प्रश्नद्वारेण निक्षेपादिः दर्शयितुमाह नि०-लोगे चउव्विहंमी समणस्स चउव्विहो कहंचारो?! होई धिई अहिगारो विसेसओ खित्तकालेसुं॥२४७॥ लोके चतुर्विधे द्रव्यक्षेत्रकालभावरूपे श्रमणस्य श्राम्यतीति श्रमणो- यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्याद्?, इति प्रश्ने निर्वचनमाह- भवति धृतिरित्येषोऽधिकारः, द्रव्ये तावदरसविरसप्रान्तरूक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थिकभाविते प्रकृत्यभद्रके वा नोद्वेग: कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्यम्, भावेऽप्याक्रोशोपहसनादौ / नोद्दीपितव्यम्, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तन्निमित्तत्वात् // 247 / / पुनरपि। द्रव्यादिकं विशेषतो यतेश्चारमाह // 353 // ___ नि०- पावोवरए अपरिग्गहे अगुरुकुलनिसेवए जुत्ते। उम्मग्गवजए रागदोसविरए य से विहरे // 248 // पापोपरत: पापात्-पापहेतोः सावद्यानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरत: पापोपरतः, तथा न विद्यते परिग्रहोऽ