SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्ति| श्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः१ // 351 // एत्थ मोहे पुणो पुणो अत्र अस्मिन् संसारे मोहे अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति / कोऽसावेवम्भूतः स्यादित्यत आह- श्रुतस्कन्धः१ आवंती त्यादि, यावन्त: केचन लोकेगृहस्थलोके आरम्भजीविन:सावद्यानुष्ठानस्थितिकाः, ते पौन: पुन्येन दुःखान्यनुभवेयुरिति पञ्चममध्ययनं लोकसारः, येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तद्दुःखभाजिन इति दर्शयति- एएसु इत्यादि, ‘एतेषु' सावद्यारम्भप्रवृत्तेषु प्रथमोद्देशकः गृहस्थेषु शरीरयापनार्थं वर्तमानस्तीर्थिकः पार्श्वस्थादिर्वा आरम्भजीवीसावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति / आस्तां सूत्रम् 146 चारशब्दस्य तावद्गृहस्थस्तीर्थिको वा, योऽपि संसारार्णवतटदेश्यमवाप्य सम्यक्त्वरत्नं लब्ध्वाऽपि मोक्षककारणं विरतिपरिणामं सफलता निक्षेपादिः मनीत्वा कर्मोदयात् सोऽपि सावद्यानुष्ठायी स्यादित्याह- एत्थवि बाले इत्यादि, अत्र अस्मिन्नप्यर्हत्प्रणीतसंयमाभ्युपगमे / बालोरागद्वेषाकुलितः परितप्यमानः परिपच्यमानोवा विषयपिपासया रमते, कैः?- पापैः कर्मभिः, विषयार्थं सावधानुष्ठाने धृतिं विधत्ते, किं कुर्वाण इत्याह- असरण मित्यादि, कामाग्निना पापैर्वा कर्मभिः परिपच्यमान: सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छातमिस्राच्छादितदृष्टिर्विपर्यस्यन् भूयो भूयो नानारूपा वेदना अनुभवेदिति / आसतां तावदन्ये, प्रव्रज्यामप्यभ्युपेत्य केचिद्विषयपिपासा स्तांस्तान् कल्काचारानाचरन्तीति दर्शयितुमाह- इहमेगेसि मित्यादि, ‘इह' मनुष्यलोके एकेषां न सर्वेषाम्, चरणं चर्यते वा चर्या एकस्य चर्या एकचर्या, सा च प्रशस्तेतरभेदेन द्विधा-साऽपि द्रव्यभावभेदात् / प्रत्येकं द्विधा, तत्र द्रव्यतो गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणम्, भावतस्तु अप्रशस्ता न विद्यते, सा हिरागद्वेषविराहाद्भवति, न च तद्रहितस्याप्रशस्ततेति। प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य १चैकाकिनःसङ्कादिकार्यनिमित्तान्निर्गतस्य, भावतस्तु पुना रागद्वेषविरहाद्भवति, तत्र द्रव्यतो भावतश्चैकचर्या अनुत्पन्नज्ञानानां ®च्छाऽज्ञानतमिस्राच्छादितदृष्टिविपर्ययः सन् (मु०)। // 351 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy