________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 350 // सएण वा दोसेण पाविठ्ठयरेण वा दोसेण उवलिंपिज्ज त्ति सुगमम् / यद्येवं ततः किं कुर्यादित्याह- लद्धा हु इत्यादि, लब्धानपि श्रुतस्कन्धः 1 कामान् हुरत्थे त्ति बहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्ताहिः कुर्यात्, यदिवा हुशब्दोऽपिशब्दार्थे, रेफागम:सुब्ब्यत्ययेन पञ्चममध्ययनं लोकसारः, द्वितीयार्थे प्रथमा, ततोऽयमों-लब्धानप्यर्थ्यन्ते-अभिलष्यन्त इत्यर्थाः- शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण प्रत्युपेक्ष्य / प्रथमोद्देशकः पर्यालोच्य तत:आगम्य ज्ञात्वा दुरन्तंशब्दादिविषयानुषङ्गम्, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति- तदनासेवनतया / सूत्रम् 146 चारशब्दस्य परानाज्ञापयेत्, स्वतोऽपि परिहरेदिति, एतदहं ब्रवीमि येन मया पूर्वार्थव्यावर्णनमकारि स एवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः। निक्षेपादिः शब्दादिविषयस्वरूपोपलम्भात् समुपजनितजिनवचनसंमद इति // 145 // एतच्च वक्ष्यमाणं ब्रवीमीति, तदाह__पासह एगे रूवेसु गिद्धे परिणिज्जमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसुचेव आरंभजीवी, इत्थवि बाले परिपच्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उट्ठियवायंपवयमाणे, मा मे केइ अदक्खू अन्नाणपमायदोसेणं, सययं मूढे धम्मं नाभिजाणइ, अट्टा पया माणव! कंमकोविया जे अणुवरया अविनाए पलिमुक्खमाहु आवट्टमेव अणुपरियटुंति // 146 // तिबेमि // लोकसारे प्रथमोद्देशकः 5-1 // पासह इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, रूपेषु रूपादिष्विन्द्रियविषयेषु नि:सारकटुफलेषु गृद्धान् अध्युपपन्नान्सत इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषुवा परिणीयमानान् प्राणिन इति / ते च विषयगृध्नव इन्द्रियवशगा: संसारार्णवे किमाप्नुयुरित्याह- एत्थ फासे इत्यादि, अत्र अस्मिन् संसारे हृषीकवशग: सन् कर्मपरिणतिरूपान् स्पर्शान् पौन:पुन्येन-आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति। पाठान्तरं वा // 350 //