________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 349 // काममारसंसाराः प्रवृत्त्यङ्गत्वात् / अनर्थस्तु संसारः संसारकारणं च, तत्सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात्, अत: श्रुतस्कन्धः१ संशयमानर्थगतं परिजानतो हेयोपादेयप्रवृत्ति: स्यादित्येतदेव परमार्थत: संसारपरिज्ञानमिति दर्शयति-तेन संशयं परिजान पञ्चममध्ययनं लोकसारः, ता संसारश्चतुर्गतिकस्तदुपादानं वा मिथ्यात्वाविरत्यादि अनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु प्रथमोद्देशकः परिहतमिति, यस्तु पुनः संशयं न जानीते स संसारमपि न जानातीति दर्शयितुमाह-संसयं इत्यादि, संशयं' सन्देहं द्विविधमप्य- सूत्रम् 145 अविरतानां परिजानतो हेयोपादेयप्रवृत्तिर्न स्यात्, तदप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलो निःसारो न ज्ञातो भवति // 144 // कुत: पुनरेतन्निश्चीयते? यथा तेन संशयवेदिना संसारः परिज्ञात इति?, किमत्र निश्चेतव्यं?, संसारपरिज्ञानकार्यविरत्युपलब्धेः, तत्र सर्वविरतिप्रष्ठां विरतिं निर्दिदिक्षुराह जे छेए से सागारियं न सेवइ, कट्ठएवमवियाणओ बिइया मंदस्स बालया, (जे खलु विसए सेवइ सेवित्ता वा नालोएइ, परेण वा पुट्ठो निण्हवइ, अहवा तं परंसएण वा दोसेण पाविट्ठयरेण वा दोसेण उवलिंपिज्जा) लद्धा हुरत्था पडिलेहाए आगमित्ता आणविजा अणासेवणय त्ति बेमि॥सूत्रम् 145 // जे छेए इत्यादि यश्छेको- निपुण उपलब्धपुण्यपाप: स सागारियं ति मैथुनं न सेवते मनोवाक्कायकर्मभिः, स एव यथावस्थितसंसारवेदी, यस्तु पुनर्मोहनीयोदयात्पार्श्वस्थादिस्तत्सेवते,सेवित्वा च सातगौरवभयात् किं कुर्यादित्याह- कटु / इत्यादि, रहसि मैथुनप्रसङ्गं कृत्वा पुनर्गुदिना पृष्टः सन्नपलपति, तस्य चैवमकार्यमपलपतोऽविज्ञापयतो वा किं स्यादित्याहबिइया इत्यादि, मन्दस्य अबुद्धिमत एकमकार्यासेवनमियं बालता- अज्ञानता, द्वितीया तदपह्नवनं मृषावादस्तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति- जे खलु विसए सेवई सेवित्ता वा णालोएइ, परेण वा पुट्ठो निण्हवइ, अहवा तं परं , // 349 //