SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 348 // श्रुतस्कन्धः 1 पञ्चममध्ययन लोकसारः, प्रथमोद्देशकः सूत्रम् 144 अविरताना काममारसंसारा: अनुष्ठानानि हिंसानृतस्तेयादीनि सकललोकचमत्कृतिकारीणि अष्टादश वा पापस्थानानि बालः अज्ञः प्रकर्षेण कुर्वाणः, कर्जभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैव तत्क्रियाफलविपाकं दर्शयति-तेन क्रूरकर्मविपाकापादितेन दुःखेन मूढः किंकर्त्तव्यताऽऽकुल:, केन कृतेन ममैतदुःखमुपशमंयायादिति मोहमोहितो विपर्यासमुपैति- यदेव प्राण्युपघातादिदुःखोत्पादने कारणं तदुपशमाय तदेव विदधातीति। किंच-मोहेण इत्यादि, 'मोहः' अज्ञानं मोहनीयंवा मिथ्यात्वकषायविषयाभिलाषमयं तेन मोहेन मोहितःसन् कर्म बध्नाति, तेन च गर्भमवाप्नोति, ततोऽपिजन्म पुनर्बालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपादायायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽ-8 भिधीयते- एत्थ इत्यादि, अत्र अस्मिन्ननन्तरोक्ते मोहे मोहकार्ये गर्भमरणादिके पौन:पुन्येनानादिकमपर्यन्तं चतुर्गतिकं संसारकान्तारं पर्यटति, नास्मादपैतीतियावत्, कथं पुनः संसारे न बम्भ्रम्यात्?, तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्, असावेव कुतो?, विशिष्टज्ञानोत्पत्ते:, सैव कुतो?, मोहाभावात्, यद्येवमितरेतराश्रयत्वम्, तथाहि- मोहाऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तम्, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्तान तावत्कर्मशमनाय प्रवृत्ति: स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति // 143 // आह च संसयं परिआणओसंसारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरिन्नाए भवइ / सूत्रम् 144 / / संसय मित्यादि, संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तु संशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंशयस्य 0 विशिष्टज्ञानादित्याह (प्र०)। // 348 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy