________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 347 // काममार त्वात्किम्भूतो भवतीत्यत आह-नेव से इत्यादि, नैवासौ विषयसुखस्यान्तर्वर्त्तते, तदभिलाषापरित्यागाच्च नैवासौ दूरे, यदिवा श्रुतस्कन्धः१| यस्य गुरवः कामा:स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह-णेव से इत्यादि, नैवासौ कर्मणोऽन्तः-मध्ये भिन्नग्रन्थित्वा- पञ्चममध्ययन लोकसारः, त्सम्भावितावश्यंभाविकर्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकर्मस्थितिकत्वात्, चारित्रावाप्तावपि नैवान्त व प्रथमोद्देशकः च दूरे इत्येतच्छक्यते वक्तुम्, पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायि किमसावन्तर्भूतः संसारस्याहोश्विद्बहिर्वर्त्तते / सूत्रम् 143 अविरतानां इत्याशङ्कयाह-णेव से इत्यादि, नैवासौ संसारान्त: घातिकर्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिकर्मसद्भावादिति॥१४२ यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यक्त्व: संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्स अवियाणओ, कूराइंकम्माईबाले पकुवमाणे तेण दुक्खेण मूढे विप्परिआसमुवेइ, मोहेण गन्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो॥सूत्रम् 143 // से पासई त्यादि, सः अपगतमिथ्यात्वपटल: सम्यक्त्वप्रभावावगतसंसारासारः पश्यति दृशिरुपलब्धिक्रिय इत्यत उपलभतेअवगच्छति, किं तत्?- फुसियमिव त्ति कुशाग्रोदकबिन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूतमित्याह-पणुन्न मित्यादि, प्रणुन्नं- अनवरतापरापरोदकपरमाणूपचयात् प्रणुन्नं- प्रेरितं वातेनेरितं सन्निपतितं भाविनि भूतवदुपचारानिपतदेव निपतितम्, दार्टान्तिकं दर्शयति- एव मिति यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थितिक एवं बालस्यापि जीवितम्, अवगततत्त्वो हि स्वयमेवावगच्छति नाप्यसौ तदभिकाङ्क्षति अतो बालग्रहणम्, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालेऽत एव मन्दः-सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थं न जानाति, अत: परमार्थमविजानत एवम्भूतं जीवितमित्येवं पश्यति / परमार्थमजानंश्च यत्कुर्यात्तदाह- कूराणि इत्यादि, 'क्रूराणि' निर्दयानि निरनुक्रोशानि कर्माणिक // 347 //