________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 346 // काममार वा षड्जीवनिकायान् आरम्भप्रवृत्ता विविधं-अनेकप्रकारं विषयाभिलाषितयापरामशन्ति उपतापयन्ति, दण्डकशताडनादिभि श्रुतस्कन्धः१ र्घातयन्तीत्यर्थः, किमर्थं विपरामृशन्तीति दर्शयति- अर्थाय अर्थार्थं अर्थाद्वा अर्थ:- प्रयोजनं धर्मार्थकामरूपम्, कर्मणि पञ्चममध्ययन लोकसारः, ल्यब्लोपे, पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुत्प्रेक्ष्य प्राणिनो घातयन्ति, तथाहि-धर्मनिमित्तं शौचार्थं पृथिवीकायं समारभन्ते, प्रथमोद्देशकः अर्थार्थं कृष्यादि करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगंवाच्यम्, अनर्थाद्वा प्रयोजनमनुद्दिश्यैव तच्छील-8 सूत्रम् 142 अविरतानां तयैव मृगयाद्याः प्राण्युपघातकारिणी: क्रियाः कुर्वन्ति, तदेवमादनाद्वा प्राणिनो हत्वा एतेष्वेव षड्जीवनिकायस्थानेषु विविधं अनेकप्रकारं सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रियादीन् प्राणिनस्तदुपघातकारिणः परामशन्ति, तान् संसाराः प्रपीड्य तेष्वेवानेकश उत्पद्यन्त इतियावत्, यदिवा तत्षड्जीवनिकायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्णं / विपरामृशन्ति- अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति जावंति केइ लोए छक्कायवहं समारभंति अट्ठाए अणट्ठाए वा इत्यादि, 0गतार्थम्, स्याद्- असौ किमर्थमेवंविधानि कर्माणि कुरुते यान्यस्य कायगतस्य विपच्यन्ते?, तदुच्यते- गुरू से कामा से तस्यापरमार्थविदः काम्यन्त इति कामा:- शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुल्लङ्घयितुं दुष्करमित्यतस्तदर्थं कायेषु प्रवर्त्तते तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच्च यत्स्यात्तदाह- ततः षड्जीवनिकायविपरामर्शात् परमकामगुरुत्वाच्चासौ मरणं मार:- आयुषः क्षयस्तस्यान्तर्वर्त्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारोदन्वति मज्जनोन्मज्जनरूपान्न मुच्यते / ततः किमपरमित्याह- जओ से इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ दूरे परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान परित्यजति, तदपरित्यागे च मारान्तर्वर्ती, यतश्च मारान्तर्वर्ती ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाद्दूरे / यस्मादसौ कामगुरुस्तदुरुत्वान्मारान्तर्वर्ती तदन्तर्वति // 346 //