________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 345 // कादिस्कन्धहेतवः सन्ति, एवमास्रवसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यभावित्वादाद्यं जीवपदार्थं साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति- परमं च तत्पदं च परमपदम्, तच्चास्तीति सम्बन्ध इति, अस्ति मोक्षःशुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवासावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति- यतना यत्नो रागद्वेषेषु, रागद्वेषोपशमाद्यः संयमोऽसावप्यस्तीति / तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं दृढेन ग्राह्यमिति गाथार्थः // 242 // ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाह नि०- लोगस्स उ को सारो? तस्स य सारस्स को हवइ सारो? / तस्स य सारो सारंजइ जाणसि पुच्छिओसाह // 243 // लोकस्य चतुर्दशरज्ज्वात्मकस्य कः सार:?, तस्यापि सारस्य कोऽपरः सार:?, तस्यापि सारसारस्य सारं यदि जानासि ततः मया कथयेति गाथार्थः / / 243 // प्रश्नप्रतिवचनार्थमाह नि०-लोगस्स सार धम्मो धम्मपि य नाणसारियं बिंति / नाणं संजमसारं संजमसारंच निव्वाणं // 244 // समस्तस्यापिलोकस्य तावद्धर्म:सारो, धर्ममपिज्ञानसारंब्रुवते, ज्ञानमपिसंयमसारम्, संयमस्यापि सारभूतं निर्वाणमिति गाथार्थः॥ 244 // उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यम्, तच्चेदं आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसुचेव विप्परामुसंति, गुरु से कामा, तओ से मारस्स अंतो, जओ से मारस्स अंतो तओ से दूरे, नेव से अंतो नेव दूरे। सूत्रम् 142 // आवन्ती त्ति यावन्तोजीवा मनुष्या असंयता वा स्युः, केआवंति त्ति केचन लोके चतुर्दशरज्ज्वात्मके गृहस्थान्यतीर्थिकलोके श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, प्रथमोद्देशकः नियुक्तिः 243-244 लोकसारयो निक्षेपाः सूत्रम् 142 अविरतानां काममार ससारा // 345 //