SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 344 / / श्रुतस्कन्धः१ पञ्चममध्ययनं लोकसारः, प्रथमोद्देशकः नियुक्तिः 241-242 लोकसारयो निक्षेपाः द्ध्युपायस्य भावसारतांप्रतिपादयन्नाह नि०- लोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसुं। सारो हु नाणदंसणतवचरणगुणा हियट्ठाए॥२४१॥ लोके गृहस्थलोके कुत्सिता: समया: कुसमयाः तेषु च, किम्भूतेषु?- कामपरिग्रहेण ये कुत्सिता मार्गास्तेषु लग्नेषु, हुर्हतो, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति, वक्ति च- गृहाश्रमसमो धर्मो, न भूतो न भविष्यति। पालयन्ति नरा: शूराः, क्लीबा: पाषण्डमाश्रिताः॥१॥गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिन इत्येवं महामोहमोहित इच्छामदनकामेषु प्रवर्त्तते, तथा तीर्थका अप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिष्वङ्गिण इत्यतस्तेषु सारो ज्ञानदर्शनतपश्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः।। 241 // यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याह नि०- चइऊणं संकपयंसारपयमिणं दढेण पित्तव्वं / अत्थि जिओ परमपयं जयणा जा रागदोसेहिं॥ 242 / / त्यक्त्वा प्रोज्झ्य, किं तत्?- शङ्कापदं किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवंम्भूतो विकल्पः शङ्का तस्याः पदं निमित्तकारणं तच्चाहत्प्रोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु या संशीति:- सन्देह इत्येतद्रूपंतच्छङ्कापदं विहाय सारपदं-इदं ज्ञानादिकं प्रागुपन्यस्तं दृढेन- अनन्यमनस्केन तीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्यम्, तदेव शङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति- अस्ति जीवः, अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणम्, अस्ति-विद्यते जीवितवान् जीवति जीविष्यतीति वा जीव: शुभाशुभफलभोक्तेति, स च प्रत्यक्ष एवाहप्रत्ययसाध्यः, इच्छाद्वेषप्रयत्नादिकार्यानुमानसाध्यो वा, तथा अजीवा अपि धर्माधर्माकाशपुद्गला गतिस्थित्यवगाहट्यणु // 344 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy