SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 343 // नि०- सव्वस्स थूल गुरुए मज्झे देसप्पहाण सरिराई। धण एरंडे वइरे खइरं च जिणा उरालादी॥२३९ / / श्रुतस्कन्धः१ अत्र पूर्वार्द्धपश्चार्द्धयोर्यथासङ्घयं लगनीयम्, सर्वस्वे धनं सारभूतम्, तद्यथा- कोटिसारोऽयं पञ्चकपर्दकसारो वा, स्थूले। पञ्चममध्ययनं लोकसारः, एरण्डः सारः, सारशब्दोऽत्र प्रकर्षवाची, स्थूलानां मध्ये एरण्डो भिण्डो वा प्रकर्षभूतः, गुरुत्वे वज्रम्, मध्ये खदिरः, देशे प्रथमोद्देशकः आम्रवृक्षो वेणुर्वा, प्रधाने यो यत्र प्रधानभावमनुभवति सचित्तोऽचित्तो मिश्रश्चेति, सचित्तो द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु नियुक्तिः 239-240 जिनश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्ष: अचित्तेषु वैडूर्यो मणिः, मिश्रेषु तीर्थकर एव विभूषितः, शरीरेष्वौदारिकं मुक्ति लोकसारयो गमनयोग्यत्वाद्विशिष्टरूपापत्तेश्च, आदिग्रहणात् स्वामित्वकरणाधिकरणेषु सारता योज्या, तद्यथा-स्वामित्वे गोरसस्य घृतं निक्षेपाः सारभूतम्, करणत्वे मणिसारेण मुकुटेन शोभते राजा, अधिकरणे दनि घृतं जले पद्ममुत्थितमित्यादिगाथार्थः // 239 // भावसारप्रतिपादनायाह नि०- भावे फलसाहणया फलओ सिद्धी सुहुत्तमवरिट्ठा। साहणय नाणदंसणसंजमतवसा तहिं पगयं / / 240 // भावे भावविषये सारे चिन्त्यमाने फलसाधनता सारः फलं- अर्थक्रियावाप्तिस्तस्य साधनता फलसाधनता फलार्थमारम्भे प्रवर्त्तनं ततः फलावाप्तिः प्रधानम्, फलतोऽप्यनैकान्तिकानात्यन्तिकरूपात् सांसारिकात्सकाशात्तद्विपर्यस्तं फलं सारः, किं तत्?- सिद्धिः, किम्भूताऽसौ?- उत्तमसुखवरिष्ठा उत्तमंच तदात्यन्तिकैकान्तिकानाबाधत्वात् सुखंच उत्तमसुखं तेन वरिष्ठा-2 वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति-साधनकानि प्रकृष्टोपकारकाणि ज्ञानदर्शनसंयमतपांसि, तस्मिंश्च भावसारे सिद्धाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति गाथार्थः // 240 // तस्यैव ज्ञानादेः 0 खरबं प्र० // 43 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy