________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 342 // श्रुतस्कन्ध:१ पञ्चममध्ययनं लोकसारः, प्रथमोद्देशकः नियुक्ति : 238 लोकसारयो निक्षेपाः त्वव्यक्तस्य-अगीतार्थस्य सूत्रार्थापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमर्थाधिकारः 4, पञ्चमके तु ह्रदोपमेन साधुना भाव्यम्, यथा हि ह्रदो जलभृतोऽप्रतिस्रवः प्रशस्यो भवति, एवं साधुरपि ज्ञानदर्शनचारित्रभृतो विस्रोतसिकारहित इति, तथा तपः संयमगुप्तयो निःसङ्गताचेत्ययमर्थाधिकारः 5, षष्ठेतून्मार्गवर्जना-कुदृष्टिपरित्यागः, तथा रागद्वेषौ च त्याज्यावित्ययमर्थाधिकारः 6, इति गाथात्रयार्थः // 235-237 // नामनिष्पन्ने तु निक्षेपेऽत्र द्विधा नाम- आदानपदेन गौणं चेति, एतत् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाह नि०-आयाणपएणावंति गोण्णनामेण लोगसारुत्ति।लोगस्स य सारस्स य चउक्कओ होइ निक्खेवो॥२३८॥ आदीयते-प्रथममेव गृह्यत इत्यादानं तच्च तत्पदंच आदानपदं तेन करणभूतेनावन्तीत्येतन्नाम, अध्ययनादावावन्तीशब्दस्योचारणाद्, गुणैर्निष्पन्नं गौणं तच्च तन्नाम च गौणनाम तेन हेतुना लोकसार इति, लोकस्य- चतुर्दशरज्ज्वात्मकस्य सार:परमार्थो लोकसार: द्विपदं नामेत्यत: लोकस्य सारस्य च प्रत्येकं चतुष्कको निक्षेपो भवति, तद्यथा- नामलोको यस्य कस्यचिल्लोक इति नाम क्रियते, स्थापनालोकश्चतुर्दशरज्ज्वात्मकस्य लोकस्य स्थापना गाथात्रयादवसेया, तच्चैतत्- तिरिअं चउरो दोसुं छद्दोसुं अठ्ठ दस य एक्केक्के / बारस दोसुं सोलस दोसुं वीसा च चउसुंतु॥१॥ पुणरवि सोलस दोसुं बारस दोसुं तु हुंति नायव्वा। तिसु दस तिसु अठुच्छ य दोसु दोसुं तु चत्तारि // 2 // ओयरिअ लोअमज्झा चउरो चउरो य सबहिं णेया / तिअ तिअ दुग दुग एक्केक्कगं च जा सत्तमीए उ॥३॥द्रव्यलोकोजीवपुद्गलधर्माधर्माकाशकालात्मकःषद्भिधःभावलोकस्त्वौदयिकादिषड्भावात्मकः सर्वद्रव्यपर्यायात्मको वा // 238 // सारोऽपि नामादि चतुर्विधः, तत्र नामस्थापने सुगमत्वादनादृत्य द्रव्यसारप्रतिपादनायाह // 342 //