________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 341 // अर्थाधिकारः ॥अथ पञ्चममध्ययनं लोकसाराख्यम् // | श्रुतस्कन्धः१ ॥प्रथमोद्देशकः॥ पञ्चममध्ययनं लोकसारः, उक्तं चतुर्थमध्ययनम्, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तराध्ययने सम्यक्त्वं प्रतिपादितं तदन्तर्गत प्रथमोद्देशकः च ज्ञानम्, तदुभयस्य च चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन / नियुक्तिः सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्था |235-237 धिकारोऽभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारः प्रतिपिपादयिषुराह नि०-हिंसगविसयारंभग एगचरुत्ति न मुणी पढमगंमि। विरओ मुणित्ति बिइए अविरयवाई परिग्गहिओ॥२३५॥ नि०- तइए एसो अपरिग्गहोय निव्विन्नकामभोगोय। अव्वत्तस्सेगचरस्स पच्चवाया चउत्थंमि // 236 // नि०- हरओवमो य तवसंयमगुत्ती निस्संगया य पंचमए। उम्मग्गवजणा छट्ठगंमि तह रागदोसे य॥२३७॥ हिनस्तीति हिंसक: आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः, व्यधिकरणस्यापि गमकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भको विषयारम्भक इति, हिंसकश्च विषयारम्भकश्चेति विगृह्य समाहारद्वन्द्वः, प्राकृतत्वात्पुंल्लिङ्गता, अयमों-हिंसकः प्राणिनां विषयारम्भकश्च विषयार्थं सावद्यारम्भप्रवृत्तश्च न मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमोद्देशके 1, द्वितीये तु हिंसादिपापस्थानकेभ्यो // 341 // विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान् भवतीत्येतच्चात्रोद्देशके प्रतिपादयिष्यत इति 2, तृतीये त्वेष एव विरतो मुनिरपरिग्रहो भवतीति निर्विणकामभोगश्चेत्ययमर्थाधिकारः 3, चतुर्थे