________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 340 // विशेषणानि गतार्थानि, किम्भूतं ज्ञानमिति चेदाह-किं प्रश्ने अस्ति विद्यते?, कोऽसौ?- उपाधि: कर्मजनितं विशेषणम्, तद्यथा- नारकस्तैर्यग्योनः सुखी दुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक इत्यादि, आहोस्विन्न विद्यत इति परमतमाशङ्कय त ऊचुः- पश्यकस्य सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः स एव पश्यकस्तस्य कर्मजनितोपाधिन विद्यते, इत्येतदनुसारेणाहमपि ब्रवीमि न स्वमनीषिकयेति ॥१४१॥गत: सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशको, नयविचारातिदेशात् समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति // ग्रं०६२० // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, चतुर्थोद्देशक: सूत्रम् 141 संयमप्रति पादनम् // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ चतुर्थममध्ययनं सम्यक्त्वाख्यं समाप्तम् / // 340 //