SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 338 // पादनम् भोगान् भावयतो मध्ये वर्तमानकाले कुतो भोगेच्छा स्यात्?, मोहनीयोपशमानैव स्यादित्यर्थः / यस्य तु त्रिकालविषया श्रुतस्कन्धः१ भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह- से हु इत्यादि, हुः यस्मादर्थे यस्मानिवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान् चतुर्थमध्ययन सम्यक्त्वं, प्रकृष्टं ज्ञानं प्रज्ञानं-जीवाजीवादिपरिच्छेत्तृ तद्विद्यते यस्यासौ प्रज्ञानवान्, यत एव प्रज्ञानवानत एव बुद्ध:- अवगततत्त्वो, यत / चतुर्थोद्देशकः एवम्भूतोऽत एवाह-आरंभोवरए सावधानुष्ठानमारम्भस्तस्मादुपरत आरम्भोपरतः / एतच्चारम्भोपरमणंशोभनमिति दर्शयन्नाह- सूत्रम् 140 सम्म मित्यादि, यदिदंसावद्यारम्भोपरमणं सम्यगेतत्-शोभनमेतत् सम्यक्त्वकार्यत्वाद्वासम्यक्त्वमेतदित्येवं पश्यत-एवं गृहीत संयमप्रतियूयमिति / किमित्यारम्भोपरमणं सम्यगिति चेदाह- जेण इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कशादिभिः घोरं प्राणसंशयरूपं परितापं शारीरमानसं दारुणं असह्यमवाप्नोत्यत आरम्भोपरमणं सम्यग्भूतं कुर्यात्, किं कृत्वेत्याह- पलिच्छिन्दि इत्यादि, परिच्छिद्य अपनीय, किं तत्?- स्रोत: पापोपादानम्, तच्च बाह्यं धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं वेति, किंच-णिक्कम्मदंसी त्यादि, निष्क्रान्तः कर्मणो निष्कर्मा- मोक्षः संवरो वा तं द्रष्टुंशीलमस्येति निष्कर्म्मदर्शी, इहे ति संसारे मर्येषु मध्ये य एव निष्कर्मदर्शी स एव बाह्याभ्यन्तरस्रोतसश्छेत्तेति स्यात् / किमभिसन्धिः स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्मदर्शी वा भवेत् इत्यत आहकम्माणं इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते- बध्यन्त इति कर्माणि- ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद्वा कर्मणां फलं दृष्ट्वा, तेषां च फलं-ज्ञानावरणीयस्य ज्ञानावृतिः दर्शनावरणस्य दर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननु च न सर्वेषां कर्मणां विपाकोदयमिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात् तपसाच क्षयोपपत्तेरित्यतः कथं कर्मणांसफलत्वं?,नैष दोषो, नात्र प्रकारकात्य॑मभिप्रेतं अपितु द्रव्यकात्य॑म्, तच्चास्त्येव, // 338 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy