________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 337 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, चतुर्थोद्देशकः सूत्रम् 140 संयमप्रतिपादनम् स्यात्, कोऽसौ?-बाल: अज्ञः रागद्वेषमहामोहाभिभूतान्तकरणः।यश्चादानस्रोतोगृद्धः स किम्भूतः स्यादित्याह-अव्वोच्छिन्नबंधणे इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनं-अष्टप्रकारं कर्म यस्य स तथा, किंच- अणभिक्कत इत्यादि, अनभिक्रान्त:अनतिलङ्गितः संयोगोधनधान्यहिरण्यपुत्रकलत्रादिकृतोऽसंयमसंयोगोवा येनासावनभिक्रान्तसंयोग: तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वाऽविजानत आज्ञाया:-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमितीर्थकरवचनोपलब्धसद्भाव इति, यदिवाऽऽज्ञा बोधि: सम्यक्त्वम्, अस्तिशब्दश्चायं निपातस्त्रिकालविषयी, तेनायमर्थ:तस्यानभिक्रान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीन्नास्ति न भावीति // 139 // एतदेवाह जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओसिया?,से हु पन्नाणमंते बुद्धे आरंभोवरए, संममेयंति पासह, जेण बंधं वहं घोरंपरियावं च दारुणं पलिछिंदिय बाहिरगंच सोयं, निक्कंमदंसी इह मच्चिएहिं, कम्माणं सफलं दळूण तओ निजाइ वेयवी। सूत्रम् 140 // यस्य कस्यचिदविशेषितस्य कर्मादानस्रोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धनस्यानभिक्रान्तसंयोगस्याज्ञानतमसि वर्त्तमानस्य पुरा पूर्वजन्मनि बोधिलाभो नास्ति-सम्यक्त्वं नासीत् पश्चादपि एष्येऽपि जन्मनि न भावि मध्ये मध्यजन्मनि तस्य कुतः स्यात् इति?, एतदुक्तं भवति-यस्यैव पूर्व बोधिलाभः संवृत्तो भविष्यति वा तस्यैव वर्तमानकाले भवति, येन हि सम्यक्त्वमास्वादितं पुनर्मिथ्यात्वोदयात्तत्प्रच्यवते तस्यापार्द्धपुद्गलपरावर्तेनापिकालेनावश्यं तत्सद्भावात्, न ह्ययं सम्भवोऽस्ति प्रच्युतस्य सम्यक्त्वस्य पुनरसम्भव एवेति, अथवाऽनिरुद्धेन्द्रियोऽपि आदानस्रोतोगृद्ध इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वत आगामि च दिव्याङ्गनाभोगमनभिकाङ्कतो वर्तमानसुखाभिष्वङ्गोऽपि नैव स्यादित्येतद्दर्शयितुमाह- जस्स नत्थि इत्यादि, यस्य भोगविपाकवेदिनः पूर्वभुक्तानुस्मृतिर्नास्ति नापि पाश्चात्यकालभोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् // 337 //