________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 336 // पौनःपुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते? इत्याह दुरनुचरो इत्यादि, दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ?-मार्ग: श्रुतस्कन्ध:१ संयमानुष्ठानविधिः, केषां?- वीराणां अप्रमत्तयतीनाम्, किम्भूतानामित्याह- अणियट्ट इत्यादि, अनिवर्तो मोक्षस्तत्र गन्तुं | चतुर्थमध्ययनं सम्यक्त्वं, शीलं येषां ते तथा तेषामिति, यथा च तन्मार्गानुचरणं कृतं भवति तद्दर्शयति- विगिंच इत्यादि, मांसं शोणितं दर्पकारि चतुर्थोद्देशकः विकृष्टतपोऽनुष्ठानादिना विवेचय पृथक्कुरु, तद्धासं विधेहीतियावत्, एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः / यश्चैवम्भूतः। सूत्रम् 139 स कं गुणमवाप्नुयादित्याह- एस इत्यादि, एष मांसशोणितयोरपनेता पुरि शयनात् पुरुषः द्रवः- संयमः स विद्यते यस्यासौ संयमप्रति पादनम् द्रविकः, मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात्, कर्मरिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति / किं च- आयाणिज्जे इत्यादि, स वीराणां मार्ग प्रतिपन्न: मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-ग्राह्य आदेयवचनश्च व्याख्यात इति / कश्चैवम्भूत इत्याहजे धुणाइ इत्यादि, ब्रह्मचर्य संयमे मदनपरित्यागेवोषित्वा यः समुच्छ्रयंशरीरकं कर्मोपचयं वा तपश्चरणादिना धुनाति कृशीकरोति स आदानीय इति विविधमाख्यातो व्याख्यात इति सम्बन्धः॥१३८॥उक्ता अप्रमत्ताः, तद्विधर्मणस्तु प्रमत्तानभिधित्सुराह___णेत्तेहिं पलिच्छिन्नेहिं आयाणसोयगढिए बाले, अव्वोच्छिन्नबंधणे अणभिक्वंतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि त्तिबेमि ॥सूत्रम् 139 // नयत्यर्थदेशं- अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि-चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः- यथास्वं विषयग्रहणं / प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानस्रोतोगृद्ध:- आदीयते-सावद्यानुष्ठानेन स्वीक्रियत इत्यादानं-कर्म संसारबीजभूतं तस्य स्रोतांसि- इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगा वा तेषु गृद्धः- अध्युपपन्न: // 336