________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 335 / / आङीषदर्थे, ईषत्पीडयेद् अविकृष्टेन तपसा शरीरकमापीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, तत ऊर्द्धमधीतागमः परिणता श्रुतस्कन्ध:१ र्थसद्भाव: सन् प्रकर्षेण विकृष्टतपसा पीडयेत्प्रपीडयेत्, पुनरध्यापितान्तेवासिवर्ग:सङ्कामितार्थसार: शरीरं तित्यक्षुर्मासार्द्ध चतुर्थमध्ययनं सम्यक्त्वं, मासक्षपणादिभिः शरीरं निश्चयेन पीडयेन्निष्पीडयेत्, स्यात्- कर्मक्षयार्थं तपोऽनुष्ठीयते, स च पूजालाभख्यात्यर्थेन तपसा चतुर्थोद्देशक: न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इत्यतोऽन्यथा व्याख्यायते-कम्मैव कार्मणशरीरं वा आपीडयेत्प्रपीडयेन्निष्पीडयेत्, सूत्रम् 138 अत्रापीषदर्थादिका प्रकर्षगतिरवसेया, यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिषु गुणस्थानकेषु, ततोऽपूर्व संयमप्रति पादनम् करणानिवृत्तिबादरयोः प्रपीडयेत्, सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत्, अथवा आपीडनमुपशमश्रेण्यां प्रपीडनं क्षपकश्रेण्यांक निष्पीडनं तुशैलेश्यवस्थायामिति। किं कृत्वैतत्कुर्यादित्याह- जहित्ता इत्यादि, पूर्वः संयोगः पूर्वसंयोगो- धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्व:- असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा आवीलये दित्यादिसम्बन्धः, किं च- हिचा इत्यादि, हि गता वित्यस्मात् पूर्वकाले क्त्वा हित्वा गत्वा, किं उपशमं- इन्द्रियनोइन्द्रियजयरूपं संयम वा गत्वा प्रतिपद्यापीडयेदिति वर्त्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयमं प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यत: कर्मापीडनार्थमुपशमप्रतिपत्तिस्तत्प्रतिपत्तौ चाविमनस्कतेत्याह- तम्हा इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विगत भोगकषायादिष्वरतौ वा मनो यस्य स विमना योन तथा सोऽविमनाः, कोऽसौ?, वीर:- कर्मविदारणसमर्थः। अविमनस्कत्वाच्च यत्स्यात्तदाह- सारए इत्यादि, सुष्ट्वा- जीवनमर्यादया संयमानुष्ठाने रतः स्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, सदा सर्वकालं सकृदारोपितसंयमभारः संस्तत्र यतेत यत्नवान् भवेदिति। किमर्थं पुन: // 335 //