SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 332 // श्रुतस्कन्ध:१ चतुर्थमध्ययनं सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 136 पाखण्डिनां धर्मबाह्यता पमत्थइ / एवं अत्तसमाहिए अणिहे, विगिंच कोहं अविकंपमाणे / / सूत्रम् 136 // इह अस्मिन् प्रवचने आज्ञामाकासितुंशीलमस्येति आज्ञाकानी- सर्वज्ञोपदेशानुष्ठायी, यश्चैवम्भूतःस पण्डितो विदितवेद्यः अस्निहो भवति, स्निह्यते- श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्निहोऽस्निहः, यदिवा स्निह्यतीति स्निहो रागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्वाच्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रियकषायकर्मभिः योन तथा सोऽनिहतः, इह प्रवचने आज्ञाकानी पण्डितो भावरिपुभिरेभिरनिहतो, नान्यत्र, यश्चानिहतः स परमार्थतः कर्मणः परिज्ञाता।यश्चैवम्भूतः स किं कुर्यादित्याह- एगमप्पाण मित्यादि, सोऽनिहतोऽस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं संप्रेक्ष्य पर्यालोच्य धुनीयाच्छरीरकम्, सम्भावनायां लिङ्, सर्वस्मादात्मानं व्यतिरिक्त पश्यतः, सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावैकत्वभावनैवंरूपा भावयितव्येति संसार एवायमनर्थसारः,8 कः कस्य कोऽत्र स्वजनः परो वा? / सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न भवन्ति भूयः॥१॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् / स्वकर्मभिर्धान्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् // 2 // सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् / न तं पश्यामि यस्याहं नासौ भावीति यो मम ॥३॥तथा- एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् / जायते म्रियते चैक, Wएको याति भवान्तरम् // 1 // इत्यादि, किंच- कसेहि अप्पाणं जरेहि अप्पाणं परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा कष कस्मै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्नोषि तत्र नियोजयेदित्यर्थः, तथा जर शरीरकं जरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयेदित्यर्थः, किमर्थमित्येतदिति (c) रिपुभिरनिहतो (प्र०)। 0 प्रेक्ष्य (प्र०)। 0 कस्से (प्र०)। // 332 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy