SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः | // 331 // श्रुतस्कन्ध: 1 चतुर्थमध्ययनं सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 136 पाखण्डिनां धर्मबाह्यता आदेयं 7 यशः कीर्तिरिति 8 ध्रुवोदय 12 सहिता विंशतिः 20, एकविंशत्यादीनि तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणआप स्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्थगौरवभयात् प्रत्येकं नोच्यन्त इत्यत एकैकभेदावेदनं क्रियते, तत्रैकविंशतिः गति: 1 जाति: 2 आनुपूर्वी 3 त्रसं 4 बादरं 5 पर्याप्तापर्याप्तयोरन्यतरत् 6 सुभगदुर्भगयोरन्यतरत् 7 आदेयानादेययोरन्यतरत् 8 यशः कीर्त्ययशः कीोरन्यतरत् 9, एताश्च नव ध्रुवोदय 12 सहिता एकविंशति: 21, चतुर्विंशतिस्तु तिर्यग्गतिः 1 एकेन्द्रियजाति: 2 औदारिकं 3 हुण्डसंस्थानं 4 उपघातं 5 प्रत्येकसाधारणयोरन्यतरत् 6 स्थावरं 7 सूक्ष्मबादरयोरन्यतरत् 8 दुर्भगं 9 अनादेयं 10 अपर्याप्तकं 11 यश:कीर्त्ययश:कीोरन्यतर १२दिति, तत्रैवापर्याप्तकापनयने पर्याप्तकपराघाताभ्यां प्रक्षिप्ताभ्यां पञ्चविंशति: 25, षड्रिंशतिस्तु याऽसौ केवलिनो विंशतिरभिहिता सैवौदारिकशरीराङ्गोपाङ्गद्वयान्यतरसंस्थानाद्यसंहननोपघातप्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य 26, सैव तीर्थकरनामसहिता केवलिसमुद्धातवतो मिश्रकाययोगिन एव सप्तविंशतिः 27, सैव प्रशस्तविहायोगतिसमन्विताऽष्टाविंशति: 28, तत्र तीर्थकरनामापनयने उच्छ्रास 1 सुस्वर 2 पराघात 3 प्रक्षेपेसति त्रिंशद्भवति 30, तत्र सुस्वरे निरुद्ध एकोनत्रिंशत् 29, सैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् 31, नवोदयस्तु मनुष्यगतिः 1 पञ्चेन्द्रियजाति: 2 त्रसं 3 बादरं 4 पर्याप्तकं 5 सुभगं 6 आदेयं 7 यशः कीर्त्ति 8 स्तीर्थकरमिति 9, एता अयोगितीर्थकरकेवलिन:, एता एव तीर्थकरनामरहिता अष्टाविति 8, गोत्रस्यैकमेव सामान्येनोदयस्थानम्, उच्चनीचयोरन्यतरद् यौगपद्येनोदयाभावो विरोधादिति, तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामुदाहरन्तीति // 135 // यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह इह आणाकंखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं, जहा जुन्नाई कट्ठाई हव्ववाहो // 331
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy