________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 330 // श्रुतस्कन्धः१ | चतुर्थमध्ययनं सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 135 पाखण्डिनां धर्मबाह्यता सत्कर्माताकारणैश्च कर्म परिज्ञायेति, ते चामी उदयप्रकाराः, तद्यथा- मूलप्रकृतीनांत्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्राष्टापि कर्मप्रकृतीयोगपद्येन वेदयतोऽष्टविधम्, तच्च कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षये वा सप्तविधम्, घातिक्षये चतुर्विधमिति / साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युच्यन्ते, तत्र ज्ञानावरणीयान्तराययोः पञ्चप्रकारं एकमुदयस्थानम्, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्यौगपद्योदयाभावः, मोहनीयस्य सामान्येन नवोदयस्थानानि, तद्यथा- दश नव अष्टौ सप्त षट् पञ्च चत्वारि द्वे एकं चेति, तत्र दश मिथ्यात्वं 1 अनन्तानुबन्धी क्रोधोऽप्रत्याख्यान: प्रत्याख्यानावरणः सज्वलनश्चेत्येतत्क्रोधचतुष्टयम् 5 एवं मानादिचतुष्टयमपि योज्यं अन्यतरो वेदः६हास्यरतियुग्मं अरतिशोकयुग्मंवा 8 भयं 9 जुगुप्सा 10 चेति, भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽष्टी, अनन्तानुबन्ध्यभावे सप्त, मिथ्यात्वाभावे षट्, अप्रत्याख्यानोदयाभावे पञ्च, प्रत्याख्यानावरणाभावे चत्वारि, परिवर्त्तमानयुगलाभावे सज्वलनान्यतरवेदोदये सति द्वे, वेदाभावे एकमिति, आयुषोऽप्येकमेवोदयस्थानं चतुर्णामायुषामन्यतरदिति, नाम्नो द्वादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशति: चतुर्विंशतिः पञ्चविंशति: षड्विंशति: सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ चेति, तत्र संसारस्थानां सयोगिनां जीवानां दशोदयस्थानानि नाम्नो भवन्ति, अयोगिनां तु चरमद्वयमिति, अत्र च द्वादश ध्रुवोदया: कम्मप्रकृतयः, तद्यथा- तैजसकानेणे शरीरे 2 वर्णगन्धरसस्पर्शचतुष्टयं 6 अगुरुलघु 7 स्थिरं 8 अस्थिरं 9 शुभं 10 अशुभं 11 निर्माण 12 मिति, तत्र विंशतिरतीर्थकरकेवलिन: समुद्धातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा- मनुष्यगति:१ पञ्चेन्द्रियजाति: 2 वसं 3 बादरं 4 पर्याप्तकं 5 सुभगं 6 // 330 //