________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् 1 // 329 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, तृतीयोद्देशकः सूत्रम् 135 पाखण्डिनां धर्मबाह्यता इत्येतदनुविचिन्त्य- अक्षिनिमीलनेन पर्यालोच्य पश्य विवेकिन्या मत्याऽवधारय / के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आहनरे इत्यादि, नराः- मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा- मृतेव मृता संस्काराभावादळ शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्चा-तेजः, सच क्रोधः, सच कषायोपलक्षणार्थः, ततश्चायमर्थोमृता-विनष्टा अर्चा कषायरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किंच-धर्मं श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ, यत एव धर्मविदोऽत एव ऋजवः- कौटिल्यरहिताः ।स्यादेतत्-किमालम्ब्यैतद्विधेयमित्यत आह-आरंभज मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माज्जातमारम्भजम्, किं तद्?- दुःखमिदमिति सकलप्राणिप्रत्यक्षम्, तथाहि- कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानसंदुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमुक्तम्, इतिः उपप्रदर्शने, इत्येतदनुभवसिद्धंदुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजवश्च भवन्तीति / एतच्च समस्तवेदिनोभाषन्त इति दर्शयति- एव मित्यादि, एवं पूर्वोक्तप्रकारेण आहुः उक्तवन्तः, के एवमाहुः?- समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुद्देशकादेरारभ्योक्तं तदेवमूचुरित्यर्थः, कस्मात्त ऊचुरित्याह- ते सव्वे इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः प्रावादिकाः प्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, त एव प्रावादिका:- यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, दुःखस्य शारीरमानसलक्षणस्य तदुपादानस्य वा कर्मण: कुशला निपुणास्तदपनोदोपायवेदिन:सन्तस्ते सर्वेऽपिज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यान-2 परिज्ञामुदाहरन्ति, इतिः उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या कर्मबन्धोदयसत्कर्मताविधानतः परिज्ञाय सर्वशः सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्मताकार्यभूतैरागामिबन्ध