________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 333 // चेदाह- जहा इत्यादि, यथा जीर्णानि निःसाराणि काष्ठानि हव्यवाहो हुतभुक्प्रमथ्नाति शीघ्रं भस्मसात् करोति, दृष्टान्तं श्रुतस्कन्धः१ प्रदर्श्य दान्तिकमाह- एवं अत्तसमाहिए ‘एवं' अनन्तरोक्तदृष्टान्तप्रकारेणात्मना समाहित आत्मसमाहितः, ज्ञानदर्शनचारित्रो- चतुर्थमध्ययनं सम्यक्त्वं, पयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः,सदाशुभव्यापारवानित्यर्थः, आहिताग्न्यादिदर्शनादार्ष तृतीयोद्देशकः त्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः, अस्निह: स्नेहरहितः संस्तपोऽग्निना। नियुक्ति: 234 सूत्रम् 137 कर्मकाष्ठं दहतीति भावार्थः // 136 // एतदेव दृष्टान्तदान्तिकगतमर्थं नियुक्तिकारो गाथयोपसजिघृक्षुराह पाखण्डिनां नि०-जह खलु झुसिरं कट्ठ सुचिरं सुक्कं लहुं डहइ अग्गी। तह खलुखवंति कम्मं सम्मच्चरणे ठिया साहू॥२३४॥ धर्मबाह्यता गतार्था / अत्र चास्निहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह- विगिंच कोह मित्यादि, कारणेऽकारणे वाऽतिक्रूराध्यवसाय: क्रोधस्तं परित्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयति- अविकम्पमानः / / 234 // किं विगणय्यैतत्कुर्यादित्याह इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाइंच फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा अतिविजो नो पडिसंजलिज्जासि // सूत्रम् 137 // त्तिबेमि॥चतुर्थे तृतीयः॥४-३॥ इदं मनुष्यत्वं निरुद्धायुष्कं निरुद्धं-परिगलितमायुष्कं सम्प्रेक्ष्य पर्यालोच्य क्रोधादिपरित्यागं विदध्यात्, किंच-दुक्ख मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसंदुःखमुत्पद्यते तज्जानीहि, तज्जनितकर्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिक प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः, आगामिदुःखस्वरूपमाह- पुढो इत्यादि, पृथक् सप्तमनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान् दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव क्षणे दुःखमनु