SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 323 // सूत्रम् 134 आश्रवनिर्जरयो व्याप्तिः असायं अपरिनिव्वाणं महब्भयं दुक्खं ।सूत्रम् 134 // त्तिबेमि॥ चतुर्थाध्ययने द्वितीय उद्देशकः 4-2 // आवन्ती ति यावन्तः केआवन्ती ति केचन लोके मनुष्यलोके श्रमणाः पाषण्डिकाः ब्राह्मणा द्विजातयः पृथक्पृथग विरुद्धो वादो विवादस्तंवदन्ति, एतदुक्तं भवति-यावन्तः केचन परलोकंज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि- भागवता ब्रुवते- पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणो, निर्विशेषं सामान्य तत्त्वमिति, वैशेषिकास्तुभाषन्ते द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषात्मकं तत्त्वमिति शाक्यास्तु वदन्ति- यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं चे ति, मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवान भवन्ति, अपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तं- प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा। प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा॥ १॥इत्येवमादिक औदेशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः / यदिवा ब्राह्मणाः श्रमणा धर्मविरुद्धं वादं यद्वदन्ति तत्सूत्रेणैव दर्शयति-से दिटुं च णे इत्यादि यावत् नत्थित्थ दोसो त्ति, से त्ति तच्छब्दार्थे यदहं वक्ष्ये तत् दृष्टं उपलब्ध दिव्यज्ञानेनास्माभिरस्माकंवा सम्बन्धिना तीर्थकृता आगमप्रणायकेन चशब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिर्गुर्वादेः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतं अभिमतं युक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परोपदेशदानेन, एतच्चोर्ध्वाधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः- प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युपेक्षितं च- पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, // 323 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy